Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 120
________________ समवायः-९३ ११७ वा-सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्तमानो वा-सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः, अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धते हीयेतेच, यदा च दिनवृद्धिस्तदा रात्रिहानि रात्रिवृद्धौ च हिनहानिरिति, तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृध्या त्रयो मुहूर्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्तेवा, तेषुचद्वादशमुहूर्तेषु मध्ये क्षिप्तेषुअष्टादशभ्योऽपसारितेषु वा पञ्चदश मुहूर्त्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्तो द्विनवतितममण्डलस्याः समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनवतितमं मण्डलं चादित आरभ्य त्रिनवतितमं तत्र च मण्डले यथोक्तः सूत्रार्थ इति । समवायः-९३ समाप्तः (समवायः-९४) मू. (१७३) निसहनीलवंतियाओ णं जीवाओ चउनउइ जोयणसहस्साई एक्कं छप्पन्नं जोयणसयं दोन्नि य एगूणवीसइभागे जोयणस्स आयामेणं प० । अजियस्सणं अरहओ चउनउइ ओहिनाणिसया होत्था । वृ. अथ चतुर्नवतिस्थानके किश्चिद्विविच्यते, 'निसहे'त्यादि, इह पादोना संवादगाथा 'चउणउइसहस्साइंछप्पणहियं सयं कला दोय । जीवा निसहस्सेस" समवायः-९४ समाप्तः (समवायः-९५) मू. (१७४) सुपासस्स णं अरहओ पंचानउइ गणा पंचानउइ गणहरा होत्था। जम्बुद्दीवस्स णं दीवस्स चरमंताओ चउद्दिसिं लवणसमुदं पंचानउइ पंचानउइ जोयणसहस्साइं ओगाहित्ता चत्तारि महापायालकलसा प० तं०-वलयामुहे केऊए जूयए ईसरे लवणसमुद्दस्स उभओपासंपि पंचानउयं पंचानउयं पदेसाओ उव्वेहुस्सेहपरिहाणीए प० कुंथू णं अरहा पंचानउइ वाससहस्साई परमाउयं पालइत्ता सिद्धे बुद्धे जाव पहीणे। थेरे णं मोरियपुत्ते पंचानउइवासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे । वृ. अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्श्वतोऽपि पञ्चनवति प्रदेशा उद्वेधोत्सेधपरिहान्या विषयेप्रज्ञप्ताः, अयमत्र भावार्थः-लवणसमुद्रमध्ये दशसाहनिकक्षेत्रस्य समधरणीतलापेक्षया सहमुद्वेधः उण्डत्वमित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेशो हीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य प्रदेशः परिहीयते, एवं पञ्चनवतिर प्रदेशातिक्रमे प्रदेशमात्रस्य प्रदेशमात्रस्योद्वेधस्य हान्यापञ्चनवत्यां योजनसहेष्वतिक्रान्तेषसमुद्रतटप्रदेशेषुउद्वेधसहस्यापरि परिहानिर्भवतीत्यर्थः,समभूतलत्वं भवतीति, तथा समुद्रमध्यभागापेक्षया तत्तटस्य साहसिक उत्सेधो भवति, उत्सेधश्चोच्चत्वं,तत्र समधरणीतलरूपात्तत्तटात्पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिकाउत्सेधस्य परिहानिर्भवति, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा www.jainelibrary.org Jain Education International For Private & Personal Use Only


Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204