Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१५४
समवायाङ्गसूत्रम्-२३३ कालवचनवत् शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्महदवत् अक्षयत्वादेवाव्ययं मानुषोत्तरादहिः समुद्रवत्अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आह - ___ 'से जहा नाम ए' इत्यादि, तद्यथा नाम पञ्चास्तिकायाःधर्मास्तिकायादयः न कदाचिनासन्नित्यादि प्राग्वत्, ‘एवमेवे' त्यादि दार्शन्तिकयोजना निगदसिद्धैवेति ।
"एत्थ ण'मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावा-जीवादयः पदार्था, एते च जीवपुद्गलानामनन्तत्वादनन्ता इति, तथा अनन्ता अभावाः, सर्वभावनामेव पररूपेणासत्त्वत्ति एवानन्ता अभावाइति, स्वपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्वस्य, तथाहि-जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्येतुधम्मपिक्षयाअनन्ताभावाः अनन्ताअभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इतिव्याचक्षते, तथाऽनन्ता हेतवः,तत्रहिनोति-गमयति जिज्ञासितधर्मविशिष्टाननिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधात्मकत्वात्, तप्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिर्वतकानि, तथाअनन्तान्यकारणानि सर्वकारणानामेव कार्यान्तकारणत्वात्, नहि मृत्पिण्ड: पटनिवर्तयतीति, तथा अनन्ताजीवाः-प्राणिनः एवमजीवाःयणुकादयः भवसिद्धिका-भव्याः सिद्धा-निष्ठितार्था इतरे-संसारिणः, 'आघविजंती'त्यादि पूर्ववदिति द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमधित्सुराह
मू. (२३४) दुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीअजीवरासी अरूवीअजीवरासी य।
सेकिंतंअरूवी अजीवरासी?, अरूविअजीवरासी दसविहा पन्नत्ता, तंजहा-धम्मस्थिकाए जाव अद्धासमए, रूवीअजीवरासी अणेगविहा०प० जाव।
से किंतं अनुत्तरोववाइआ?, अनुत्तरोववाइआपंचविहा पन्नत्ता, तजहा-विजयवेजयंतजयंतअपराजितसव्वट्ठसिद्धिआ ।सेत्तं अनुत्तरोववाइआ, सेत्तं पंचिंदियसंसारसमा-वण्णजीवरासी, दुविहा नेरइया पन्नत्ता, तंजहा-पज्जत्ताय अपजत्ता य, एवंदंडओभाणियब्बोजाव वेमाणियत्ति
इमीसे णं रयणप्पभाए पुढवीए केवइयं खेत्तं ओगाहेत्ता केवइया निरयावासा प०?', गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा धेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठसत्तरि जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए नेरइयाणं तीसं निरयावाससयसहस्सा भवंतीतिमक्खाया, तेणं निरयावासा अंतो वा बाहिं चउरसा जाव असुभा निरया असुभाओ निरएसु वेयणाओ, एवं सत्तवि भाणियव्वाओ जंजासु जुइ।
वृ. इहच प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वं तदक्षरमध्येतव्यं, किमवसानमित्याह'जाव से किं त'मित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह 'दुवे रासी पन्नत्ता'इत्यभिलापसूत्रं (तत्र)तु 'दुविहा पन्नवणा पन्नत्ता जीवपन्नवणाअजीवपन्नवणाय'त्ति, अतिदिटस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदयते-तत्राजीव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/801ea9e22e2d9fdf34a38d2aaf77311d4352602404bc8219e27dd81352e5866d.jpg)
Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204