Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः - प्रकीर्णकाः
पंचेन्दियतेयगसरीरे णं भंते! किंसंठिए ?, नानासंठाणसंठिए' यस्य पृथिवादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तैजसस्य कार्म्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना ?, शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तुजधन्येनाङ्गुलस्यासंख्येयभाग उत्कर्षत उर्द्धमधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, एवं सर्वेषामेवैकेन्द्रियाणां द्वीन्द्रियाणां तु आयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत्प्रायस्तिर्यगलोके द्वीन्द्रियादितिरश्चां भावात् ।
१६५
नारकस्य जघन्यतो योजनसहस्रं, कथं ?, नरकात्पातालकलशस्य सहमानं कुड्यं भित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेण तु अधः सप्तमीं यावत् सप्तमपृथ्वीनारकं समुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, तिर्यक् स्वयम्भूरणं यावत् ऊर्ध्वं पण्डकवनपुष्करिणीं यावत्, यतस्ययोर्नारक उत्पद्यते, न परतः, मनुष्यस्य लोकान्तं यावत् ।
भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां जघन्यतोऽङ्गुलासंख्येयतमभागः स्वस्थान एव पृथिव्यादितयोत्पादात्, उत्कर्षतस्तु अधस्तृतीयपृथ्वीं यावत् तिर्यक् स्वयम्भूमणबहिर्वेदिकान्तं ऊर्ध्वमीषव्याग्भारांयावत्, यत एते शुभपर्याप्तबादरेष्वेव पृथिव्यादिषूत्पद्यन्ते अतो न परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानां तु जघन्यतोऽङ्गुलासंख्येयभागः, कथं ?, पण्डकवनादिपुष्करिणीम-जनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात् पूर्वसम्बन्धिनीं वा मनुष्योपभुक्तचिं परिष्वज्य मृतस्य तदगर्भे समुत्पादादिति, उत्कर्षतस्तु अधो यावन्महापातालकलशानां द्वितीयभागः, तत्र हि जलसद्भावान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्रं यावत्, ऊर्ध्वमच्युतं यावत्, तत्र हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति ।
आनतादीनामच्युतानां तु जघन्यतोऽङ्गुलासंख्येय भागः, कतं ?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तयिमप्यभिष्वज्य मृतस्य तत्रैवोत्पत्तेरिति, उत्कर्षतस्तधो यावदधोलोकग्रामान् तिर्यङ्गमनुष्यक्षेत्र ऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते इति भावना तथैव कार्या, ग्रैवेयकानुत्तरोपपातिकदेवानां जघन्यतो विद्याधर श्रेणीं यावत् उत्कर्षतोऽधो यावदधोलोकग्रामान् तिर्यङ्गनुष्यक्षेत्रं ऊर्ध्वतद्विमानान्येवेति, एवं कार्म्मणस्याप्यवगाहना दृश्या समानत्वादेव तयोरिति ।
उक्तार्थमेव सूत्रांशमाह-'गेवेज्जगस्य ण' मित्यादि । अनन्तरं शरीरिणामवगाहना धर्म्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह
119 11
भेय विसयसंठाणे अभितर बाहिरे य देसोही । ओहिस्स बुढिहाणी पडिवाई चेव अपडिवाई ॥
द्वारगाथा, तत्र भेदोऽवधेर्वक्तव्यो, यथा द्विविधोऽवधिर्मवति-भवप्रत्ययः क्षायोपशमिकश्च, तत्र भवप्रत्ययो देवनारकाणां क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो-गोचरोऽवधेर्वाच्यः, सच चतुर्द्धा द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो जघन्येन तेजोभाषयोरग्रहणप्रायोग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गुलासंख्येयभागं जानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च जानाति, उत्कर्षतः संख्यातीता उत्सर्पिण्यवसर्पिणीर्जानाति, भावतो जघन्यतः प्रतिद्रव्यं चतुरो वर्णादीन् उत्कर्षतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204