Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१६६
समवायाङ्गसूत्रम्-२४६
प्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति।
तथा संस्थानमववेर्वाच्यं, यथा नारकाणां तप्राकारोऽवधि पल्याकारो भवनपतीनां पडहाकारोव्यन्तराणां झल्लाकृतिज्योर्तिष्काणांमृदङ्गाकाराः कल्पोपपन्नानांपुष्पावलीरचितशिखर चङ्गेर्याकारो ग्रैवेयकानां कन्याचोलकसंस्थानोऽनुत्तरसुराणां लोकनाल्याकृतिरित्यर्थः, तिर्यमनुष्याणां तुनानासंस्थान इति, तथा अब्भितर'त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यं, यथा नेरइयदेवतित्थंकरायओहिस्सऽबाहिराहुंती'त्यादि, तथा बाहिरे यत्ति केऽवधिक्षेत्रस्य बाह्याभवन्तीति वाच्यं, तत्र शेषाजीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा 'देसोहित्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशीअवधिर्देशावधिसकेषांभवतीतिवाच्यं, तद्विपरीतस्तुसविधिः
तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वावधि केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेवृद्धिानिश्च वाच्या, यो येषा भवति, तत्र तिर्यग्मनुष्याणां वर्द्धमानो हीयमानश्च भवति,शेषाणामवस्थित एष तत्र वर्द्धमानोऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति विरीतस्तुहीयमानइति, तथा प्रतिपातीचाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतोलोकमात्रः प्रतिपात्यतः परमप्रतिपाती, तत्रभवप्रत्यस्तंभवंयावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति ।
एतदेव दर्शयति
मू. (२४७) कइविहे णं भंते ! ओही पन्नचा?, गोयमा! दुविहा पन्नत्ता भवपञ्चइए य खओवसमिए य, एवं सव्वं ओहिपदं भाणियव्वं ।
वृ. 'कइविहे इत्यादि, अत्रावसरेप्रज्ञापनायास्त्रयशित्तमंपदमन्यूनमध्येयमिति, अन्तरमुपयोगविशेषःक्षायोपशमिको जीवपर्यायः उक्तोऽधुनास एवौदयिको वेदनालक्षणोऽभिधीयते मू. (२४८) सीया य दव्व सारीर साया तह वेयणा भवे दुक्खा।
अब्भुवगमवक्कमिया नीयाए चेव अनियाए।। वृ. 'सीया इत्यादि द्वारगाथा, तत्र ‘सीया यत्ति चशब्दोऽनुक्तसमुच्चये तेन त्रिविधा वेदना-शीता उष्णा शीतोष्णा चेति, तत्र शीतामुष्णां च वेदयन्ति नारकाः, शेषास्त्रिविधामपि, 'दव्वेत्ति उपलक्षणत्वाच्चतुर्विधा वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना नारकाधुपपातक्षेत्रसम्बन्धात् क्षेत्रवेदनानारकाद्यायुःकालसम्बन्धात् कालवेदना वेदनीयकर्मोदयाद्भाववेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपिवेदनांवेदयन्तीति, तथा सारीर'त्ति त्रिविधा वेदना शारीरी मानसी शारीरमानसी च, तत्र संज्ञिपञ्चेन्द्रियाः सर्वे त्रिविधामपिइतरेतु शारीरीभेवेति, तथा 'साय'त्ति त्रिविधा वेदना-साता असाता सातसाता चेति, तत्र सर्वे जीवाः त्रिविधामपि वेदयन्तीति।
'तह वेयणा भवे दुक्ख'त्ति त्रिविधा वेदना-सुखा दुःखा सुखदुःखा चेति, तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरं सातासातयोःसुखदुःखयोश्चायं विशेषः-सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे सुखदुःखे तुपरेण उदीर्यमाणवेदनीयकानुभवलक्षणे, तथा 'अब्भुवगमुवक्कमिय'त्ति द्विधा वेदना-आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्यामभ्युपगमतो वेदयन्ति जीवा यथा साधवः शिरोलुञ्चनब्रह्मचर्यादिकां द्वितीया तु स्वयमुद्दीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य वेदनीयस्यानुभवतः, तत्रपञ्चेन्द्रियतिर्यमनुष्या द्विविधामपिशेषास्त्वीपक्रमिकीमेव वेदयन्तीति, तथा 'नायाए चेव अनियाए'त्ति द्विविधा वेदना, तत्र निदयाआभोगतः अनिदया
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204