Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः - प्रकीर्णकाः
१६७
त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंत्रिनस्त्वनिदयेति, एतदद्वारविवरणाय।
मू. (२४९) नेरइया णं भंते ! किं सीतं वेयणं चेयंति उसिणं वेयणं वेयंति सीतोसिण वेयणं वेयंति?, गो० ! नेरइया० एवं चेव वेयणापदंभाणियव्वं कइणंभन्ते! लेसाओ पं०?, गो० ! छलेसाओ पं०, तं०-किण्हा नीला काऊ तेऊ पम्हा सुक्का, एवं लेसापयं भाणियव्वं ।
वृ. 'नेरइयाण'मित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमं वेदनाख्यं पदमध्येयमिति अन्तरं वेदना प्ररूपिता, साच लेश्यावतएव भवतीति लेश्याप्ररूपणायाह-'कइणंभंते इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशंषडुद्देशक लेश्याभिधानं पदमध्येतव्यं, तच्चास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणायाह-'अनंतरा येत्यादिद्वारश्लोकमाह, तत्र-- मू. (२५०) अनंतरा य आहारे आहाराभोगणा इय।
पोग्गला नेव जाणंति, अज्झवसाणे य सम्मत्ते॥ वृ. 'अनंतरा य आहारे'त्ति अनन्तराश्च-अव्यवधानाचाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगता, अपिचेति वचनादनाभोगताच वाच्या, तथा पुद्गलान जानन्त्येव एवकारानपश्यन्तीति चतुर्भङ्गी सूचिता, तथा अध्यवसानानि सम्यक्त्वंचवाच्यमिति, तत्राद्यद्वारार्थमाह -
मू. (२५१) नेरइयाण भंते! अनंतराहार तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणयातओ परियारणयातऔपच्छा विकुब्वणया?, हंता भा०! एवं आहारपदंभाणियध्वं
वृ. 'नेरइए'त्यादि, 'अनन्तराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः 'ततो निव्वत्तणया इतिततः शरीरनिर्वृत्ति, ततो परियाइयणय'त्ति ततः पर्यादानमङ्गप्रत्यङ्गै समन्तात्पा (दादा)नमित्यर्थ, ततोपरिणामय'त्ति ततःशब्दादिविषयोपभोगइत्यर्थः 'ततोपच्छा विउव्वणय'त्ति ततः पश्चाद्विक्रियानानारूपा इत्यर्थः, हन्ता गौतम !,एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यं, नवरं देवानापूर्वविकुर्वणा पश्चात्परिचारणा शेषाणांतुपूर्वं परिचारणा पश्चाविकुर्वणा, एकेन्द्रियादीनामप्येवंप्रश्ने, निर्वचने तुयत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति । 'एवमाहारपयंभाणियव्वं ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि च भणभिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमंपरिचारणापदाख्यंपदमिह भणितव्यमिति,इदंचात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत्पुनरेवमर्थतस्तत्र 'आहाराभोगणाइय'त्ति एतस्य विवरण-नारकाणा किमाभोगनिवर्तित आहारोऽनाभोगनिर्वतितो वा?, उभयथापीति निर्वचनं।
एवं सर्वेषां नवरमेकेन्द्रियाणामनाभोगनिर्वर्तित एवेति, तथा 'पोग्गला नेव जाणंति'त्ति अस्यार्थ-नारकायान्पुद्गलान् आहारयन्ति तानवधिनापिन जानन्ति अविषयत्वात्तदवधेस्तेषां, नपश्यन्तिचक्षुषाऽपिलोमाहारत्वात् तेषां, एवमसुरादयीन्द्रियान्ताः, केवलंएकेन्द्रियाअनाभोगाहारत्वाद्वित्रीन्द्रियाश्चमत्यज्ञानित्वान्नजानन्ति चक्षुरिन्द्रियाभावाचन पश्यन्तीति, चतुरिन्द्रियास्तु चक्षुसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषापि न पश्यन्ति, तथा त एव लोमाहारमाश्रित्य नजानन्ति न पश्यन्तीतिव्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिजानन्तिपश्यन्ति चावधिज्ञानादिषुयुक्ताःलोमाहारप्रक्षेपाहाराच्च, तथाऽन्ये जानन्ति न पश्यन्ति लोमाहारंजानन्त्यवधिना न पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204