Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 156
________________ समवायः - प्रकीर्णकाः १५३ नवरं ‘संखेज्जा वत्थु'त्ति पञ्चविंशत्युत्तरे द्वे शते ‘संखेज्जा चूलवत्थु'त्ति चतुस्त्रिंत् । साम्प्रतं द्वादशाङ्गे विराघनानिष्पनं त्रैकालिकं फलमुपदर्शयन्नाह मू. (२३३) अनागए काले अनंता जीवा आणाए विराहित्ता चाउरंतसंसारकतारं अनुपरियट्टिस्संति, इच्छेइयं दुवालसंगं गणिपिडगंअतीतकाले अनंता जीवा आणाए आराहित्ता चाउरंतसंसारकंतारं वीईवइंसु एवं पडुप्पन्नेऽवि एवं अणागएवि। दुवालसंगेणं गणिपिडगे न कयावि नस्थिण कयाइ नासी न कयाइ न भविस्सइ भुविंच भवति य भविस्सति य धुवे णितिए सासए अक्खए अव्वए अवट्टिए णिच्चे से जहा णामए पंच अस्थिकाया न कयाइ न आसि न कयाइ नत्थिन कयाइ न भविस्सतित भुविं च भवति य भविस्सतिय धुवा नितिया सासया अक्खया अव्वया अवडिया निच्चा एवामेव दुवालसंगे गणिपिडगे नकयाइ न आसिन कयाइ नथिन कयाइणनभविस्सइ भुवि च भवति य भविस्सइयधुवे जाव अवहिए निचे। एत्थ णंदुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा हेऊ अनंता अहेऊ अनंता कारणा अन्ता अकारणा अन्ता जीवा अन्ता अजीवा अन्ता भवसिद्धिया अन्ता अभवसिद्धिया अन्ता सिद्धा अन्ता असिद्धाआघविनंति पनविनंति परूविजंतिदंसिर्जति निदंसिर्जति उवदंसिर्जति एवं दुवालसंगं गणिपिडगं इति ॥ वृ. 'इच्चेय'मित्यादि, इत्येतद्दादशाङ्गंगणिपिटकमतीतकाले अनन्ताजीवाआज्ञया विराध्य चतुरन्तं संसारकान्तारं 'अनुपरियटिंसुत्ति अनुपरिवृत्तवन्तः, इदं हि द्वादशाङ्गसूत्रार्थोभयभेदेन त्रिविधं, ततश्च आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यतापाठादिलक्षणया अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारकतिर्यगनरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तोजमालिवत् अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत् उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेशादेरन्यथा- करणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेक श्रमणवत् सूत्रार्थोभवैर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, 'इच्चेय'मित्यादि गतार्थमेव -नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्तमाने विशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् अनुपरियटृति'त्ति अनुपरावर्त्तन्तेभ्रमन्तीत्यर्थः, 'इच्चेय'मित्यादिइदमपि भावितार्थमेव, नवरम् अनुपरियाट्टिस्संतिं त्ति अनुपरावर्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, इच्चेयमित्यादि कण्ठ्यं, नवरं 'विइवइंसुत्ति व्यतिव्रजितवन्तः चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः-'विइवयंति'त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवं, नवरं 'वीइव-इस्संति'त्ति व्यतिव्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यथः, यदिदमनिटेतरभेदभिन्न फलं प्रतिपादितमेत-सदावस्थायित्वेसति द्वादशाङ्गस्योपजायत इत्याह -- _ 'दुवालसंगे' इत्यादि, द्वादशाङ्गं णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात्न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किंतर्हि ?, 'भुविंचे' त्यादि अभूच भवति च भविष्यति च, ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच्च ध्रुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्त्वादेव शाश्वतं समयावलिकादिषु For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204