Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१३६
समवायाङ्गसूत्रम्-२२१ 'जिनेनेति भगवता महावीरेण वित्थरेण भासियाणं विस्तरेण भणितानामित्यर्थ,: पुनः किंभूतानां?
'दव्ये' त्यादि, द्रव्यगुणक्षेत्रकालपर्यवनदेशपरिणामावस्थायथास्तिभावाऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपक्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैव्याकरणैस्तानि तथा तेषां, तत्र द्रव्याणि-धर्मास्तिकायादीनि गुणाःज्ञानावर्णादयःक्षेत्रं-आकाशं कालः- समयादि पर्यवाः-स्वपरभेदभिन्ना धाः अथवा कालकृता अवस्थानवपुराणादयः पर्यवाः प्रदेशा-निरंशावयवाः परिणामाःअवस्थातोऽवस्थातरगमनानियथा-येनप्रकारेणास्तिभावः अस्तित्वं-सत्ता यथाऽस्तिभावं अनुगमःसंहितादिव्याख्यानप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा निक्षेपो-नामस्थापनाद्रव्यभावैर्वस्तुनो न्यासः 'नयप्रमाणं' नया-नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात ज्ञाननयक्रियानयभेदानिश्चयव्यवहारभेदाद्वा द्वौते एव तावेव वाप्रमाणं-वस्तुतत्परिच्छेदनं नयप्रमाणं तथा सुनिपुणः-सुसूक्ष्मः सुनिपुणो वा सुष्टु निश्चितगुण उपक्रमः-अनुपूर्वादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां व्याकरणानां?
लोकालोकौ प्रकाशितौ येषु तानि तथा तेषां तथा 'संसारसमुद्दरुंदउत्तरणसमत्थाणं'ति संसारसमुद्रस्यरुंदस्य-विस्तीर्णस्य उत्तरणे-तारणेसमर्थानामित्यर्थः अत एव सुरपतिसंपूजितानांप्रच्छकनिर्णायकपूजनात् सूक्तत्वेन श्लाधितत्वाद्वातथा 'भवियजणपयहिययाभिणंदियाणं'ति भव्यजनानां भव्यप्राणिनां प्रजा-लोको भव्यजप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैःचित्तैरभिनन्दितानां-अनुमोदितानामिति विग्रहः, तथा तमोरजसी-अज्ञानपातके विध्वंसयतिनाशयति यत्तत्तमोरजोविध्वंसंतच्च तद् ज्ञानंच तमोरजोविध्वंसज्ञानं तेन सुष्ठु दृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि चतानि दीपभूतानिचेति, अथ एव तानिईहामतिबुद्धिवर्द्धनानि चेति, तेषां तमोरजोविध्वंसज्ञानुदृष्टदीपभूतेहामतिबुद्धिवर्द्धनानां, तत्रईहा-वितर्को मति-अवायो निश्चय इत्यर्थ : वुद्धिः-औत्पत्तिक्यादिचतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेणसुदृष्टदीपभूतानामितिच, तथा छत्तीससहस्समणूणयाण तिअन्यूनकानिषट्त्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति।
'वागरणाणं'ति व्याक्रियन्ते-प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात्-प्रकाशनादुपनिबन्धनादित्यर्थः, अथवा तेषादर्शना-उपदर्शकाइत्यर्थः, क इत्याह-सुतत्थबहुविहप्पयारे'त्ति श्रुतविषया-अर्थाः श्रुतार्था अभिलाप्यार्थविशेषा इत्यर्थः श्रुता वा आकर्णिता जिनसकाशे गणधरे ये अर्थास्ते श्रुतार्थाः, अथवा श्रुतमिति सूत्रं अर्थानिर्युक्यादय इति श्रुतार्थास्तेच तेबहुविधप्रकाराश्चेतिविग्रहः श्रुतार्थानां वा बहवो विधाः-प्रकारा इति विग्रहः, किमर्थं ते व्याख्यायन्त इत्याह-शिष्यहितार्थाय शिष्याणां हितंअनर्थप्रतिघातार्थप्राप्तिरूपंतदेवार्थः प्रार्थ्यमानत्वात्तस्य तस्मैइति, किंभूतास्ते अत आह-गुणहस्ता-गुण एवार्थप्राप्तयादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा।
___ “वियाहस्से'त्यादि तु निगमनान्तं सूत्रसिद्धं, नवरं शतमिहाध्ययनस्य संज्ञा, चतुरशीति पदसहस्राणि पदाग्रेणेति समवायापेक्षया द्विगुणताया इहानाश्रयणादन्यथा तद्विगुणत्वे द्वे लक्षे अष्टाशीति सहम्नाणि च भवन्तीति।
मू. (२२२) से किंतं नायाधम्मकहाओ?, नायाधम्मकहासुणं नायाणं नगराई उजाणाइ चेइआई वनखंडा रायाणो ५ अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204