Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 148
________________ समवायः - प्रकीर्णकाः १४५ पाठान्तरे वरमहर्षिभिः 'विविहवित्थरभासियाणं च'त्ति विविधवितरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः । पुनः कथंभूतानां प्रश्नानां ? -'जगहियाणं'तिजगद्धितानांपुरुषार्थोपयोगित्वात् किंसम्बधिनीनामित्याह अद्दाग'त्ति आदर्शश्चाङ्गुष्ठश्च बाहूच असिश्च मणिश्चक्षौमंच-वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषांकुड्यशङ्खघंटादीनांतेतथा तेषांसम्बन्धिनीनां, प्रश्नविद्याभिरादर्शकादीनामावेशनात्, किंभूतानांप्रश्नानामत आह-विविधमहाप्रश्नविद्याश्च-वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्नितार्थोत्तरदायिन्यस्तासां दैवतानि-तदधिष्ठातृदेवतास्तेषां प्रयोगप्राधान्येन-तद्व्यापारप्रधानतयागुणं-विविधार्थसंवादनलक्षणंप्रकाशयन्ति-लोकेव्यञ्जयन्ति यास्या विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां! पुनः किंभूतानां प्रश्नानां ? -सद्भूतेनतात्त्विकेन द्विगुणेन पुन उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहास्येन नरगणमतेःमनुजसमुदयबुद्धेविस्मयकाय्य:-चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभाव- नरगणमितिविस्मयकार्यस्तासां, पुनः किंभूतानां तासां?-'अतिसयमतीतीकालसमयेति अतिशयेन योऽतीतः कालः समयः सतथातत्र, अतिव्यवहिते काले इत्यर्थः, दमः-शमस्ततप्रधानः तीर्थकराणांदर्शनान्तरशास्तृणामुत्तमोयः सतथाभगवान्-जिनस्तस्यदमतीर्थकरोत्तमस्य स्थितिकरणं-स्थापन, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं, तस्य प्रतिष्ठापनस्य कारणानि-हेतवोयास्तास्तथा तासां, पुनस्ता एव विसिनष्टि-दुरभिगम-दुःखबोधं गम्भीरं सूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मत चेति सर्वसर्वज्ञसम्मतं प्रवचनत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येतिभावः 'पच्चक्खयपच्चयकराणं तिप्रत्यक्षकेनज्ञानेन साक्षादित्यर्थोयः प्रत्ययः-सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपाप्रतिपत्तिअथवा प्रत्यक्षेणेवानेनार्था प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षकप्रत्ययस्तत्करणशीला:-प्रत्यक्षकप्रत्ययकार्य प्रत्यक्षताप्रत्ययकार्यो वातासांप्रत्यक्षकप्रत्ययकारीणां प्रत्यक्षताप्रत्ययकारीणांवा, कासामित्याहप्रश्नाना-प्रश्नविद्यानां उपलक्षणत्वादन्यासांचयासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगणाबहुविधप्रभावास्ते च ते माहार्थाश्च-महान्तोऽभिधेयाः-पदार्था शुभुशुभसूचनादयो विविधगुणमहार्थाः, किंभूता?-जिनवरप्रणीताः। किमित्याह-'आघविनंति'त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं 'पणयालीस मित्यादि यद्यपीहाध्ययनानां दशत्वाद्दशेवोद्देशनकाला भवन्तितथापि वाचनान्तरापेक्षयापञ्चचत्वारिंशदिति सम्भाव्यते इति ‘पणयालीस मित्याद्यविरुद्धमिति, ‘संखेजाणि पयसयसहस्साणि पयग्गेणं'ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति । १०। मू. (२२७) से किंतं विवागसुयं?, विवागसुए णं सुक्कडदुक्कडाणं कम्पाणं फलविवागे आघविजंति, से समासओ दुविहे पन्नत्ते, तंजहा दुहविवागे चेव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तं दुहविवागाणि?, दुहविवागेसु णं दुहविवागाणं 4 [10] For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204