________________
समवायः - प्रकीर्णकाः
१४५ पाठान्तरे वरमहर्षिभिः 'विविहवित्थरभासियाणं च'त्ति विविधवितरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः ।
पुनः कथंभूतानां प्रश्नानां ? -'जगहियाणं'तिजगद्धितानांपुरुषार्थोपयोगित्वात् किंसम्बधिनीनामित्याह अद्दाग'त्ति आदर्शश्चाङ्गुष्ठश्च बाहूच असिश्च मणिश्चक्षौमंच-वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषांकुड्यशङ्खघंटादीनांतेतथा तेषांसम्बन्धिनीनां, प्रश्नविद्याभिरादर्शकादीनामावेशनात्, किंभूतानांप्रश्नानामत आह-विविधमहाप्रश्नविद्याश्च-वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्नितार्थोत्तरदायिन्यस्तासां दैवतानि-तदधिष्ठातृदेवतास्तेषां प्रयोगप्राधान्येन-तद्व्यापारप्रधानतयागुणं-विविधार्थसंवादनलक्षणंप्रकाशयन्ति-लोकेव्यञ्जयन्ति यास्या विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां!
पुनः किंभूतानां प्रश्नानां ? -सद्भूतेनतात्त्विकेन द्विगुणेन पुन उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहास्येन नरगणमतेःमनुजसमुदयबुद्धेविस्मयकाय्य:-चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभाव- नरगणमितिविस्मयकार्यस्तासां, पुनः किंभूतानां तासां?-'अतिसयमतीतीकालसमयेति अतिशयेन योऽतीतः कालः समयः सतथातत्र, अतिव्यवहिते काले इत्यर्थः, दमः-शमस्ततप्रधानः तीर्थकराणांदर्शनान्तरशास्तृणामुत्तमोयः सतथाभगवान्-जिनस्तस्यदमतीर्थकरोत्तमस्य स्थितिकरणं-स्थापन, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं, तस्य प्रतिष्ठापनस्य कारणानि-हेतवोयास्तास्तथा तासां, पुनस्ता एव विसिनष्टि-दुरभिगम-दुःखबोधं गम्भीरं सूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मत चेति सर्वसर्वज्ञसम्मतं प्रवचनत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येतिभावः
'पच्चक्खयपच्चयकराणं तिप्रत्यक्षकेनज्ञानेन साक्षादित्यर्थोयः प्रत्ययः-सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपाप्रतिपत्तिअथवा प्रत्यक्षेणेवानेनार्था प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षकप्रत्ययस्तत्करणशीला:-प्रत्यक्षकप्रत्ययकार्य प्रत्यक्षताप्रत्ययकार्यो वातासांप्रत्यक्षकप्रत्ययकारीणां प्रत्यक्षताप्रत्ययकारीणांवा, कासामित्याहप्रश्नाना-प्रश्नविद्यानां उपलक्षणत्वादन्यासांचयासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगणाबहुविधप्रभावास्ते च ते माहार्थाश्च-महान्तोऽभिधेयाः-पदार्था शुभुशुभसूचनादयो विविधगुणमहार्थाः, किंभूता?-जिनवरप्रणीताः।
किमित्याह-'आघविनंति'त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं 'पणयालीस मित्यादि यद्यपीहाध्ययनानां दशत्वाद्दशेवोद्देशनकाला भवन्तितथापि वाचनान्तरापेक्षयापञ्चचत्वारिंशदिति सम्भाव्यते इति ‘पणयालीस मित्याद्यविरुद्धमिति, ‘संखेजाणि पयसयसहस्साणि पयग्गेणं'ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति । १०।
मू. (२२७) से किंतं विवागसुयं?, विवागसुए णं सुक्कडदुक्कडाणं कम्पाणं फलविवागे आघविजंति, से समासओ दुविहे पन्नत्ते, तंजहा दुहविवागे चेव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तं दुहविवागाणि?, दुहविवागेसु णं दुहविवागाणं 4 [10]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org