SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ समवायाङ्गसूत्रम्-२२५ समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायन्त इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं 'तत्य'त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायन्ते इति योगः, 'तत्तो यत्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा चान्यक्रियां ते तथाऽऽख्यायन्ते अनुत्तरोपपातिकदशास्विति प्रकृतं, एते चान्ये चेत्यादि पूर्ववत् । __ नवरं 'दस अज्झयणा तिन्निवग्ग'त्ति, इहाध्ययनसमूहोवर्गो, वर्गेदशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्तीत्येवमेव च नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राभिप्रायो न ज्ञायत इति, तथा संख्यातानि 'पदसयसहस्साइं पयग्गेणं'ति किल षटचत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि ।९। मू. (२२६) से किं तं पण्हावागरणाणि ?, पाहावागरणेसु अझुत्तरं पसिणसयं अट्ठत्तरं अपसिणसयं अद्भुत्तरं पसिणापसिणसयं विजाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघविजंति, पण्हावागरणदसासु णं ससमयपरसमयपन्नवंयपत्तेअबुद्धविविहत्यभासाभासियाणं अइसयगुणउवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरमासियाणं च जगहियाम अद्दागंगुट्ठबाहुअसिमणिखोमआइन्चभासियाणं विविहमहापसिणविजामणपसिणविजादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सब्यसव्वन्नुसनम्मअस्स अबुहजणविबोहणकरस्स पच्चक्खयपच्चयकराणंपण्हाणविविहगुणमहत्या जिणवरप्पणीया आघविनंति। पण्हावागरणेसुणं परित्ता वायणा संखेना अनुओगदारा जाव संखेजाओ संगहणीओ। सेणंअंगठ्ठायए दसमे अंगे एगेसुयक्खंधे पणयालीसंउद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाणि पयसयसहस्साणिपयग्गेणंप०, संखेशा अक्खरा अनंतागमाजावचरणकरणपरूवणया आघविज॑ति ।। सेतं पण्हावागरणाई। वृ. 'से किं तमित्यादि, प्रश्नः-प्रतीतस्तनिर्वचनं-व्याकरणं प्रश्नानां च व्याकरणानांच योगाप्रश्नव्याकरणानि तेषु 'अट्ठत्तरं पसिणसय' तत्राङ्गुष्ठबाहुप्रश्नादिका मन्त्रविद्याः प्रश्ना या पुनर्विद्या मन्त्रविधिनाजप्यमानाअपृष्टा एव शुभाशुभंकथयन्ति एताःअप्रश्नाः तथाऽङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः प्रश्ना-प्रश्नाः 'विज्जाइसय'त्ति तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरण- विद्वेषीकरणोच्चाटनादयः नागसुपर्णेश्च सहभवनपतिविशेषैरुपलक्षणत्वाद्यक्षादिभिश्च सह साधकस्येति गम्यते दिव्याः-तात्त्विकाः संवादाःशुभाशुभगताः संलापाः आख्यायन्ते, एतदेव प्रायः प्रपञ्चयत्राह - ___“पण्हावागरणदसे'त्यादि, स्वसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकड्वादिसशैर्विविधार्था यका भाषागम्भीरेत्यथः तया भाषिताः-गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धिविवधार्थभाषाभाषितास्तासां, किम्?-आदर्शाङ्गुष्ठादीनां सम्बन्धिनांप्रश्नानांविविधगुणमहा प्रश्नव्याकरणदशास्वाख्यायन्त इति योगः, पुनः किम्भूतानां प्रश्नानां ?-'अइसयगुणउवसमनाणप्पगारआयरियभासियाणं'ति अतिशयाश्च-आमर्षोषध्यादयो गुणाश्च-ज्ञानादय उपशमश्च-स्वपरभेदः एते नानाप्रकारा येषां ते तथा ते च ते आचार्यश्च तैर्भाषिता यास्तास्तथा तासां, कथं भाषितानामित्याह-वित्थरेणं ति विस्तरेण-महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy