SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १४३ चरणकरणपस्वणया आघविनंति । सेत्तं अनुत्तरोववाइयदसाओ। वृ. 'सेकिंत'मित्यादि, नास्मादुत्तरो विद्यतेइत्यनुत्तर उपपतनमुपपातोजन्मेत्यर्थः अनुत्तर:प्रधानः संसारे अन्यस्य तथाविधस्याभावादुपपातो येषांतेतथा त एवानुत्तरोपपातिकाः, तद्वक्तव्यताप्रतिबद्धादशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः, तथा चाह- अनुत्तरोववाइयदसासु ण मित्यादि, तत्रानुत्तरोपपातिकानामिति-साधूनां नगरादीनि द्वाविंशति पदानि ज्ञाताधर्मकथावर्णकोक्तानि यथा तथा (ज्ञेयानि), एतेषामेव च प्रपञ्च रचयन्नाह - अनुत्तरोपपातिकदशासु तीर्थकरसमवसरणानि, किम्भूतानि ? -परममाङ्गल्यत्वेन जगद्धितानि परममाङ्गल्यजगद्धितानि जिनातिशेषाश्च-बहुविशेषा 'देहं विमलसुयंध'मित्यादयश्चतुस्त्रिंदधिकतरा वा तथा जिनशिष्याणं चैव-गणधरादीनां, किम्भूतानामत आह-श्रमणगणप्रवरगन्धहस्तिनां-श्रमणोत्तमानामित्यर्थः, तथा स्थिरयशसांतथा परीषहसैन्यमेव-परीषहवृन्दमेव रिपुबलं-परचक्रंतप्रमईनानां, तथा दववद्-दावाग्निरिव दीप्तानि-उज्ज्वलानि पाठान्तरेण तपोदीप्तानि यानि चारित्रज्ञानसम्यक्त्वानि तैः साराः-सफलाः विविधप्रकारविस्ताराअनेकविधप्रपञ्चाः प्रशस्ताश्च ये क्षमादयो गुणास्तैः संयुतानां, कचिद्गुणध्वजानामिति पाठः । तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयस्तेषामनगारगुणानां वर्णकः-श्लाघा आख्यायन्त इति योगः, पुनः किम्भूतानां जिनशिष्याणा? उत्तमाश्च ते जात्यादिभिर्वरतपसश्च ते विशिष्टज्ञानयोगयुक्ताश्चेत्यतस्तेषामुत्तमवरतपोविशिष्टज्ञानयोगयुक्तानां, किञ्चापरं?, यथा चजगद्धितं भगवत इत्यत्र जिनस्य शासनमिति गम्यते, यादृशाश्चऋद्धिविशेषा देवासुरमानुषाणां रत्लोज्ज्वललक्षयोजनमानविमानरचनं सामानिकाधनेकदेवदेवीकोटिसमवायनं मणिखण्डमण्डितदण्डपटुप्रचत्पताकिकाशतोपशोभितमहाध्वजपुरः प्रवर्त्तनं विविधातोधनादगगनाभोगपूरणं चैवमादिलक्षणाःप्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणंचतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च सम्पद्विशेषाः समवसरणगमनप्रवृत्तानां वैमानिकज्योतिष्काणा भवनपतिव्यन्तराणां राजादिमनुजानांचअथवा अनुत्तरोपपातिकसाधुनांऋद्धिविशेषा देवादिसम्बन्धिनस्ताशा आख्यायन्त इति क्रियायोगः। तथा पर्षदां च 'संजयवेमाणित्थी संजइ पुव्वेण पविसिउं वीर'मित्यादिनोक्तस्वरूपाणां प्रादुर्भावाश्च-आगमनानि, क ?-'जिनसमीवंति जिनसमीपेयथा-येन च प्रकारेण पञ्चविधाभिगमादिना उपासते सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा च परिकथयति धर्म लोकगुरुरिति-जिनवरोऽमरनरासुरगणानां, श्रुत्वा च तस्येति-जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषा ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के ? -नराः, किं? -यथा अभ्युपयन्तिधर्ममुदारं, किंस्वरूपमत आह-संयमंतपश्चापि, किम्भूतमित्याहबहुविधप्रकारं, तथा यथा बहूनि वर्षाणि अनुचरित'त्तिअनुचर्य आसेव्य संयमंतपश्चेति वर्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा जिनवयणमनुगयमहियभासिय'त्ति जिनवचनंआचारदिअनुगत-सम्बद्धं नाईवितर्दमित्यर्थः महितं पूजितमधिकं वा भाषितं यैरध्यापनादिना तेतथा, पाठान्तरे जिनवचनमनुगत्या-आनुकूल्येन सुष्टुभाषितंयैस्ते जिनवचनानुगतिसुभाषिताः तथा 'जिनवराण हियएणमणुण्णेत्तत्ति इति षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेनमनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy