Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 137
________________ समवायाङ्गसूत्रम् - २२० १३४ य निगमा य समाए एए अन्ने य एवमाइ एत्थ वित्थरेणं अत्था समाहिज्जति । समवायरस णं परित्ता वायणा जाव से णं अङ्गट्टयाए । 1 चउत्थे अंगे एगे सुयक्खंध एगे अज्झयणे एगे उद्देसणकाले एगे चउवाले पदसहस्से varhi प०, संखेज्जाणि अक्खराणि जाव चरणकरणपरुवणया आघविनंति । सेत्तं समवाए ४ वृ. 'से किंत' मित्यादि, अथ कोडसौ समवायः ?, सूत्रेषु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तं, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाहसमवायेन समवाये वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठयं, तथा समवायेन समवाये वा 'एगाइयाणं' - ति एकद्वित्रिचतुरादीनां शतान्तानां कोटाकोटयन्तानां वा 'एगत्थाणं' ति एके च ते अर्थाश्चेत्येकार्थास्तेषां अयमर्थ एकेषां केषाञ्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानांजीवादीनां ' एगुत्तरिय'त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह प्राकृतत्वात् ह्रस्वत्वं, 'परि- वुड्डिय' त परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्रं च परिवर्द्धन संख्यायाः समवसेयं, चशब्दस्य चान्यत्र सम्बन्धादेकोत्तरिका अनेकोत्तरिका च, तत्र शतं यावदेकोत्तरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिध`यादितद्धर्मसंख्यानं यथा 'परित्ता तसा' इत्यादि पर्यवशब्दस्य च 'पल्लव' त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्कइत्यादिवदिति, अथवा पल्लवा इव पल्लवाः-अवयवास्तत्परिमाणं 'समणुगाइज्जति 'त्तिसमनुगीयते प्रतिपाद्यते, पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह - 'ठाणगसयस्स' त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानां तद्विशेषात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्थाचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य - जिनप्रवचनस्य किंभूतस्य ? - जगज्जीवहितस्य, 'भगवतः ' श्रुतातिशययुक्तस्य 'समासेन' संक्षेपेण समाचारः - प्रतिस्थानं प्रत्यङ्गं च विविधाभिधायकत्वलक्षणो व्यवहारः ‘आहिज्जइ' त्ति आख्यायते, अथ समाचाराभिधानानन्तरं यदुक्तं तदभिधातुमाह'तत्थ ये' त्यादि, 'तत्थ य'त्ति तत्रैव समवाये इति योगः नानाविधः प्रकारो येषां ते नानाविधप्रकाराः तथाहि-एकेन्द्रियादिभेदेन पञ्पप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्ता पर्याप्तादिभेदेन नानाविधः, ‘जीवाजीवा य'त्ति जीवा अजीवाश्च वर्णिता 'विस्तरेण' महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा 'विशेषा' जीवाजीवधर्म्मा वर्णिता इति योगः, तानेव लेशत आह- 'नरये' त्यादि, 'नरय'त्ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः - ओज आहारादिराभोगिकानाभोगकस्वरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका षोढा आवाससंख्या यथा नरकावासानां चतुरशीतिलक्षाणीत्यादिका आयतप्राणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानेनोत्पत्ति च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणं । अवगाहना - शरीरप्रमाणमङ्गुलासंख्येयभागादि अवधि- अङ्गुलासंख्येयभागक्षेत्रविषयादि वेदना - शुभाशुभस्वभावा विधानानि भेदा यथा सप्तविधा नारका इत्यादि उपयोगः - आभिनिबोधिकादिर्द्वादशविधः योगः-पञ्चदशविधः इन्द्रियाणि पञ्च द्रव्यादिभेदाद् विंशतिर्वाश्रोत्रादिच्छिद्रापेक्षयाऽष्टौ वा कषायाः क्रोधादयः आहारश्चेोच्छ्वासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दा For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204