________________
समवायाङ्गसूत्रम् - २२०
१३४
य निगमा य समाए एए अन्ने य एवमाइ एत्थ वित्थरेणं अत्था समाहिज्जति । समवायरस णं परित्ता वायणा जाव से णं अङ्गट्टयाए ।
1
चउत्थे अंगे एगे सुयक्खंध एगे अज्झयणे एगे उद्देसणकाले एगे चउवाले पदसहस्से varhi प०, संखेज्जाणि अक्खराणि जाव चरणकरणपरुवणया आघविनंति । सेत्तं समवाए ४ वृ. 'से किंत' मित्यादि, अथ कोडसौ समवायः ?, सूत्रेषु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तं, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाहसमवायेन समवाये वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठयं, तथा समवायेन समवाये वा 'एगाइयाणं' - ति एकद्वित्रिचतुरादीनां शतान्तानां कोटाकोटयन्तानां वा 'एगत्थाणं' ति एके च ते अर्थाश्चेत्येकार्थास्तेषां अयमर्थ एकेषां केषाञ्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानांजीवादीनां ' एगुत्तरिय'त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह प्राकृतत्वात् ह्रस्वत्वं, 'परि- वुड्डिय' त परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्रं च परिवर्द्धन संख्यायाः समवसेयं, चशब्दस्य चान्यत्र सम्बन्धादेकोत्तरिका अनेकोत्तरिका च, तत्र शतं यावदेकोत्तरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिध`यादितद्धर्मसंख्यानं यथा 'परित्ता तसा' इत्यादि पर्यवशब्दस्य च 'पल्लव' त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्कइत्यादिवदिति, अथवा पल्लवा इव पल्लवाः-अवयवास्तत्परिमाणं 'समणुगाइज्जति 'त्तिसमनुगीयते प्रतिपाद्यते, पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह - 'ठाणगसयस्स' त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानां तद्विशेषात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्थाचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य - जिनप्रवचनस्य किंभूतस्य ? - जगज्जीवहितस्य, 'भगवतः ' श्रुतातिशययुक्तस्य 'समासेन' संक्षेपेण समाचारः - प्रतिस्थानं प्रत्यङ्गं च विविधाभिधायकत्वलक्षणो व्यवहारः ‘आहिज्जइ' त्ति आख्यायते, अथ समाचाराभिधानानन्तरं यदुक्तं तदभिधातुमाह'तत्थ ये' त्यादि, 'तत्थ य'त्ति तत्रैव समवाये इति योगः नानाविधः प्रकारो येषां ते नानाविधप्रकाराः तथाहि-एकेन्द्रियादिभेदेन पञ्पप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्ता पर्याप्तादिभेदेन नानाविधः, ‘जीवाजीवा य'त्ति जीवा अजीवाश्च वर्णिता 'विस्तरेण' महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा 'विशेषा' जीवाजीवधर्म्मा वर्णिता इति योगः, तानेव लेशत आह- 'नरये' त्यादि, 'नरय'त्ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः - ओज आहारादिराभोगिकानाभोगकस्वरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका षोढा आवाससंख्या यथा नरकावासानां चतुरशीतिलक्षाणीत्यादिका आयतप्राणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानेनोत्पत्ति च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणं ।
अवगाहना - शरीरप्रमाणमङ्गुलासंख्येयभागादि अवधि- अङ्गुलासंख्येयभागक्षेत्रविषयादि वेदना - शुभाशुभस्वभावा विधानानि भेदा यथा सप्तविधा नारका इत्यादि उपयोगः - आभिनिबोधिकादिर्द्वादशविधः योगः-पञ्चदशविधः इन्द्रियाणि पञ्च द्रव्यादिभेदाद् विंशतिर्वाश्रोत्रादिच्छिद्रापेक्षयाऽष्टौ वा कषायाः क्रोधादयः आहारश्चेोच्छ्वासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International