Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१२८
समवायाङ्गसूत्रम्-२१५
सेएवंनायाएवं विण्णायाएवंचरणकरणपरूवणयाआधविनंति पण्णविजंति परूविनंति दंसिर्जति निदंसिर्जति उवदंसिजेति । सेत्तं आयारे ।
वृ. “दुवालसंगे' इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि-आचारादीनियस्मिंतवादशाङ्ग,गुणानांगणोऽस्यास्तीति गणीआचार्यस्तस्य पिटकमिव पिटक-सर्वस्वभाजनं गणिपिटकं, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम् ॥१॥ "आयारंमि अहीए जनाओ होइ समणधम्मो उ ।
तम्हा आयारधरो भण्णइ पढमं गणिहाणं ॥ परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, अत्र चैवंपदघटना-यदेतद्गणिपि टकं तत् द्वादशाङ्गं प्रज्ञप्तं, तद्यथा-आचारः सूत्रकृत इत्यादि।
‘से किंत'मित्यादि, अथ किं तदाचारवस्तु? यद्वा अथ कोऽयमाचारः?, आचर्यत इति वा आचारः साध्वाचरितो ज्ञानाधासेवनविधिरितिभावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, 'आयारे णं'तिअनेनाचारेण करणभूतेन श्रमणानामाचारो व्याख्यायत इति योगः, अथवाआचारेऽधिकरणभूतेणमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां' सबाह्याभ्यन्तरग्रन्थरहितानां, आह-श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति ?, उच्यते, शाक्यादिव्यवच्छेदार्थम, उक्तं च-"निग्गंथसक्क तावसगेरुयआजीव पंचहा समणत्ति
तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणोविनयो-ज्ञानादिविनयः वैनयिक-तत्फलं कर्मक्षयादिस्थान-कायोत्सर्गोपवेशनशयनभेदात् त्रिरूपंगमनं-विहारभूम्यादिषु गतिश्चङ्गमणं-उपाश्रयान्तरे शरीरश्रमव्यपोहार्थितस्ततः सञ्चरणंप्रमाणं-भक्तपानाभ्यवहारोपध्यादेर्मानं योगयोजन-स्वाध्यायप्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनं भाषाः-संयतस्य भाषाः सत्यासत्यामृषारूपाः समितयः-ईर्यासमित्याद्याः पञ्च गुप्तयो-मनोगुप्त्यादयस्तिनः तथा शय्या च-वसतिरुपधिश्च-वस्त्रादिकोभक्तंच-अशनादिपानंच-उष्णोदकादीति द्वन्द्वः, तथा उद्गमोत्पादनैषणालक्षणानांदोषाणां विशुद्धिः-अभाव उद्गमोत्पादनैषणाविशुद्धिस्ततः शय्यादीनामुद्गमादिविशुध्या शुद्धानां तथाविधकारणेऽशुद्धानां च ग्रहणं शय्यादिग्रहणं।
तथा व्रतानि-मूलगुणा नियमाः-उत्तरगुणास्तपउपधानं-द्वादशविधं तपः, तत आचारश्च गोचरश्चेत्यादि यावद्गुप्तयश्च शय्यादिग्रहणं च व्रतानि च नियमाश्च तपउपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत्सुप्रशस्तंचेतिकर्मधारयः, एतत्सर्वमाख्यायते-अभिधीयते, एतेषुआचारदिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति
से समासओ' इत्यादि, सःआचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञाप्रवर्तते ‘समासतः' संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानाचारइत्यादि, तत्रज्ञानाचार:-श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपोव्यवहारोऽटधा 'दर्शनाचारः' सम्यक्त्ववतांव्यवहारो निशङ्कितादिरूपोऽष्टधा 'चारित्राचारः' चारित्रिणा समित्यादिपालनात्मको व्यवहारः 'तपआचारो' द्वादशविधपतपोविशेषानुष्ठितिः 'वीर्याचारो' ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204