Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः - २९
नामेकोनत्रिंशद्विघत्वात् तद्विध उक्तः, पापश्नुतविषयतया पापश्नुतान्येवोच्यन्ते।।
अत एवाह-भोमे त्यादि, तत्र भौम-भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रं, तथा 'उत्पातं' सहजरुधिरवृट्यादिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रं, एवं स्वप्नं-स्वप्नफलाविर्भावकं, 'अन्तरिक्षम्' आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं अङ्गशरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकं 'स्वरं' जीवाजीवादिकाश्रितस्वस्वरूपफलाभिधायकं व्यञ्जनंमषादिव्यञ्जनफलोपदर्शकं लक्षणं-लाञ्छनाद्यनेकविधलक्षणव्युत्पादकमित्यष्टौ, एतान्येव सूत्रवृत्तिवार्तिकभेदाच्चतुर्विंशति, तत्राङ्गचर्जितानामन्येषां सूत्रं सहप्रमाणं वृत्तिर्लक्षप्रमाणा वार्त्तिकवृत्तेव्यार्खयानरूपं कोटिप्रमाणं, अङ्गस्य तु सूत्रं लक्षं वृत्ति कोटी वार्तिकमपरिमितमिति, तथा विकथानुयोगः-अर्थकामोपायप्रतिपादनपराणिकामन्दकवात्स्यायनादीनि भारतादीनि वा शास्त्राणि २५ तथा विद्यानुयोगो-रोहिणीप्रमृतिविद्यासाधनाभिधायकानि शास्त्राणि २६ मन्त्रानुयोगश्वेटकाहिमन्त्रसाधनोपायशस्त्राणि २७ योगानुयोगो-वशीकरणादियोगाभिधायकानि हरमेखलादिशास्त्राणि २८ अन्यतीर्थिकेभ्यः-कपिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः तत्पुरस्करणार्थ शास्त्रसन्दर्भ इत्यर्थसोऽन्यतीर्थिकप्रवृत्तानुयोग इति २९।
तथाऽऽषाढादय एकान्तरिताषण्मासाएकोनत्रिंशद्रात्रिंदिवाइति-रात्रिदावसपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्ण पक्षे प्रत्येकं रात्रिन्दिवस्यैकस्य क्षयाद्, आह च॥१॥ “आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य ।
फग्गुणवइसाहेसुवबोद्धव्वा ओमरत्ताओ" || इयमत्र भावना-चन्द्रमासो हि एकोनत्रिंशद्दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्च त्रिंशदेव दिनानि भवन्तीति चन्द्रमासापेक्षयाऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता साधिको भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्टया चन्द्रदिवसानामेकषष्टयहोरात्राणां भवतीत्येवंसातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेष- सित्वह चन्द्रप्रज्ञप्तेरवसेय इति, तथा 'चंदविणे णं' ति चन्द्रदिन-प्रतिपदादिका तिथि-, तच्चैकोनत्रिंशत् मुहूत्ताः सातिरेकमुहूर्तपरिमाणेनेति, कथं?, यतः किलचन्द्रमासएकोनत्रिसद्दिनानि द्वात्रिंसच दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिसन्मुहूर्ता द्वात्रिंशच्च मुहूर्तस्य द्विषष्टिांगा लभ्यन्त इति ।
तथाजीवः प्रशस्ताध्यवसानादिविशेषणो वैमानिकेष्वुत्पत्तुकामो नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीबंन्धाति, ताश्चेमाः-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिययद्वयं ४ तैजसकार्मणशरीरे ६ समचतुरस्र संस्थानं७ वर्णादिचतुष्कं ११ देवानुपूर्वी १२ अगुरुलध् १३ उपघातं १४ पराधातं १५ उच्छ्वासं १६प्रशस्तविहायोगति १७त्रसं १८ वादरं १९ पर्याप्तं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं २४ सुस्वरं २५ आदेयानादेययोरन्यतरत् २६ चशःकीय॑शकीत्योरेकतरं २७ निर्माणं २८ तीर्थकरश्चेति ।
समवायः-२९ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204