________________
७०
समवायानसूत्रम्-३२/१०२
समवायः-३२
पू. (१०२)
बत्तीसं जोगसंगहा प० तं० -
वृ. द्वात्रिंशतं स्थानकमपि व्यक्तं, नवरं युज्यन्ते इति योगाः -मनोवाक्कायव्यापारः ते चेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङग्रहणानि सङग्रहाः प्रशस्तयोगसंग्रहाः प्रशस्तयोगसङग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपञ्चकं ।
मू. (१०३)
-आलोयण १ निरवलावे २, आवईसु दढधम्मया ३ । अनिस्सिओवहाणे ४ य, सिक्खा ५ निप्पडिकम्मया ६ ॥
बृ. 'आलोयणे' त्यादि, अस्य गमनिका - तत्र 'अलोयण' त्ति मोक्षसाधनयोगसङग्रहाय शिष्येणा चार्यायालोचना दातव्या १ 'निरवलावे' त्ति आचार्योऽपि मोक्षसाधकयोगसङग्रहायैव दत्तायामा- लोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः २, 'आवईसु दढधम्मय'त्ति प्रशस्तयोगसङग्रहाय साधुनाऽऽपत्सु द्रव्यादिभेदासु द्दढधर्मता कार्या, सुतरां तासु ढधर्मिणा भाव्यमित्यर्थः ३, 'अणिस्सि ओहहाणे य'त्ति शुभयोगसङग्रहायैवानिश्रितं च-तदन्यनिरपेक्षमुपधानं च तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षं तपो विधेयमित्यर्थः ४ 'सिक्ख 'त्ति योगसङग्रहाय शिक्षाऽऽ सेवितव्या, सा च सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा, ५, 'निप्पडिसकम्मय'त्ति तथैव निष्परित - कर्मता शरीरस्य विधेया ६ ||
मू. (१०४) अन्नायया अलोभे ८ य, तितिक्ख ९ अजवे १० सुई ११ । सम्मदिट्ठी १२ समाही १३ य, आयारे १४ विणओवए १५ ।।
वृ. 'अन्नायय'त्ति तपसोऽज्ञातता कार्या, यशः पूजाद्यर्थित्वेनाप्रकाशय भिस्तपः कार्यमित्यर्थः ७, 'अलोभे य'त्ति अलोभता विधेया ८, 'तितिक्ख' त्ति तितिक्षा परीषहादि- जयः ९, 'अजवे'त्ति आर्जव: ऋजुभावः १०, 'सुइ' त्ति शुचि सत्यं संयम इत्यर्थः ११ 'सम्मदिट्ठि त्ति सम्यगष्टि-सम्दर्शनशुद्धिः १२, 'समाही य'त्ति समाधिश्च चेतः स्वास्थ्यं १३, 'आयरे विणओवए' त्ति द्वारद्वयं तत्राचारोपगतः स्यात् न मायां कुर्यादित्यर्थ १४, विनयोपगतो भवेत् न मानं कुर्यादित्यर्थ १५ ॥ मू. (१०५) धिईमई १६ य संवेगे १७, पणिही १८ सुविहि १९ संवरे २० । अत्तदोसोवसंहारे २१, सव्वकामविरत्तया २२ ॥
वृ. 'धिइमई य' त्ति धृतिप्रधाना मतिर्धृतिमति- अदैन्यं १६ 'संवेगो' त्ति संवेगः - संसाराद्भयं मोक्षाभिलाषो वा १७ 'पणिहि' त्तिप्रणिधि-मायाशल्यं न कार्यमित्यर्थः १८ 'सुविहि' त्ति 'सुविहि' सदनुष्ठानं १९ संवरश्च - आश्रवनिरोधः २० 'अत्तदोसोवसंहारे' त्ति स्वकीयदोषस्य निरोधः २१ 'सव्वकामविरत्तय'त्ति समस्तविषयवैमुख्यं २२ ॥
मू. (१०६) पचक्खाणे २३-२४ विउस्सग्गे २५, अप्पमादे २६ लवालवे २७ । झाणसंवरजोगे २८ य, उदए मारणंतिए २९ ॥
वृ. 'पञ्चक्खाणे 'त्ति प्रत्याख्यानं मूलगुणविषयं २३ 'उत्तरगुणविषयं च २४ विउस्सग्गे त्ति व्युत्सर्गी द्रव्यभावभेदभिन्नः २५ 'अप्पमाए 'त्ति प्रमादवर्जनं २६ 'लवालवे 'त्ति कालोपलक्षणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International