Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१०६
समवायाङ्गसूत्रम्-७९/१५८
जोयणसहस्साइं अबाहाए अन्तरे प० ।
जम्बुद्दीवरस णं दीवस्स बाररस य बारस्स य एस णं एगूणासीइं जोयणसहस्साई साइरेगाई अबाहाए अंतरे प०।
वृ. . अथैकोनाशीतितमे स्थानके किञ्चिल्लिख्यते, तत्र 'वलयामुहस्स' त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य 'पायालस्स' त्ति महापातालकलशस्याधस्तनचरमान्ताद्रनप्रभा पृथ्वीचरमान्त एकोनाशीत्या (तौ) सहस्रेषु भवति, कथं ? रत्नप्रभा हि असीतिसहृधिकं योजनानां लक्षं बाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहृत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तो यथोक्तान्तरमेव भवति, एवमन्येऽपि त्रयो वाच्या इति ।
'छट्टीए' इत्यादि, अस्य भावार्थः षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षं षोडंश सहस्राणि च भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठयामसावेकविंशतिः संभाव्यते, तदेवं षष्टपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयं, यतस्तब्दाहल्यमष्टादशोत्तरं लक्षमुक्तं, यत आह119 11 “पढमासीइ सहस्सा १ बत्तीसा २ अट्ठवीस ३ बीसा य४ । अट्ठार ५ सोल ६ अट्टय ७ सहस्स लक्खोवरिं कुज्जा ॥ इति अथवा षष्ठयाः सहस्राधिकोऽपि मध्यभागो विवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति । तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भानि गव्युतपृथुलद्वारशाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः ।
'एसणं' ति एतदेकोनाशीतियोजनसहस्राणि सातिरेकाणीत्येवंलक्षणमबाधया-व्यवधानेन व्यवधानरूपमित्यर्थान्तरं प्रज्ञप्तं कथं ?, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि क्रोशाः ३ धनूंषि १२८ अङ्गुलानि १३ सार्द्धानीत्येवंलक्षणस्यापकार्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवफलत्वादिति ।
समवायः - ७९ समाप्तः
समवायः-८०
यू. (१५९) सेजूंस णं अरहा असीइं धणूई उड्डुं उच्चत्तेणं होत्था ।
तिविट्ठे णं वासुदेवे असीइं धणूइं उड्डुं उच्चत्तेणं होत्था अयले णं बलदेवे असीइं धणूई उड्ड उच्चत्तेणं होत्था, तिविट्टे णं वासुदेवे असीइवाससयसहस्साइं महाराया होत्था । बहु णं कण्डे असीइजोयणसहस्साइं बाहल्लेणं प० ।
ईसाणस्स देविंदरस देवरन्नो असीइ सामाणियसाहस्सीओ प० ।
जम्बुद्दीवे णं दीवे असीउत्तर जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्टोवगए पढमं उदयं
करेइ ।
वृ. अथाशीतितमस्थानके किञ्चिल्लिख्यते श्रेयांसः- एकादशो जिनः । त्रिपृष्ठः श्रेयांसजिनकालभावी प्रथमवासुदेवः, अचलः-प्रथमबलदेवः, तथा त्रिपृष्ठवासुदेव-स्य चतुरशीतिवर्षलक्षाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204