SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ समवायाङ्गसूत्रम्-७९/१५८ जोयणसहस्साइं अबाहाए अन्तरे प० । जम्बुद्दीवरस णं दीवस्स बाररस य बारस्स य एस णं एगूणासीइं जोयणसहस्साई साइरेगाई अबाहाए अंतरे प०। वृ. . अथैकोनाशीतितमे स्थानके किञ्चिल्लिख्यते, तत्र 'वलयामुहस्स' त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य 'पायालस्स' त्ति महापातालकलशस्याधस्तनचरमान्ताद्रनप्रभा पृथ्वीचरमान्त एकोनाशीत्या (तौ) सहस्रेषु भवति, कथं ? रत्नप्रभा हि असीतिसहृधिकं योजनानां लक्षं बाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहृत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तो यथोक्तान्तरमेव भवति, एवमन्येऽपि त्रयो वाच्या इति । 'छट्टीए' इत्यादि, अस्य भावार्थः षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षं षोडंश सहस्राणि च भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठयामसावेकविंशतिः संभाव्यते, तदेवं षष्टपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयं, यतस्तब्दाहल्यमष्टादशोत्तरं लक्षमुक्तं, यत आह119 11 “पढमासीइ सहस्सा १ बत्तीसा २ अट्ठवीस ३ बीसा य४ । अट्ठार ५ सोल ६ अट्टय ७ सहस्स लक्खोवरिं कुज्जा ॥ इति अथवा षष्ठयाः सहस्राधिकोऽपि मध्यभागो विवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति । तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भानि गव्युतपृथुलद्वारशाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः । 'एसणं' ति एतदेकोनाशीतियोजनसहस्राणि सातिरेकाणीत्येवंलक्षणमबाधया-व्यवधानेन व्यवधानरूपमित्यर्थान्तरं प्रज्ञप्तं कथं ?, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि क्रोशाः ३ धनूंषि १२८ अङ्गुलानि १३ सार्द्धानीत्येवंलक्षणस्यापकार्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवफलत्वादिति । समवायः - ७९ समाप्तः समवायः-८० यू. (१५९) सेजूंस णं अरहा असीइं धणूई उड्डुं उच्चत्तेणं होत्था । तिविट्ठे णं वासुदेवे असीइं धणूइं उड्डुं उच्चत्तेणं होत्था अयले णं बलदेवे असीइं धणूई उड्ड उच्चत्तेणं होत्था, तिविट्टे णं वासुदेवे असीइवाससयसहस्साइं महाराया होत्था । बहु णं कण्डे असीइजोयणसहस्साइं बाहल्लेणं प० । ईसाणस्स देविंदरस देवरन्नो असीइ सामाणियसाहस्सीओ प० । जम्बुद्दीवे णं दीवे असीउत्तर जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्टोवगए पढमं उदयं करेइ । वृ. अथाशीतितमस्थानके किञ्चिल्लिख्यते श्रेयांसः- एकादशो जिनः । त्रिपृष्ठः श्रेयांसजिनकालभावी प्रथमवासुदेवः, अचलः-प्रथमबलदेवः, तथा त्रिपृष्ठवासुदेव-स्य चतुरशीतिवर्षलक्षाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy