SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ समवाय: - ७८ १०५ अकम्पितः स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिर्वर्षाणि सर्वायुः, कथं ?, गृहस्थपर्याये अष्टचत्वारिंशत् छद्मस्थपर्याये नच केवलिपर्याये चैकविंशतिरिति । 'उत्तरायणनियट्टेणं' ति उत्तरायणाद्-उत्तरदिग्गमनान्निवृत्तः उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन् इत्यर्थः 'सूरिए' त्ति आदित्यः 'पढमाओ मंडलाओ' त्ति दक्षिणां दिशं गच्छतो रवेर्यत्प्रथमं तस्मात् न तु सर्वाभ्यन्तरसूर्यमार्गात् 'एकूणचत्तालीसइमे' त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षया तु चत्वारिंशे 'अट्टहत्तरिं' ति अष्टसप्तति 'एगसट्टिभाए 'त्ति मुहूर्तस्यैकषष्टिभागान् 'दिवसखेत्तस्स' त्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, 'निवुत्त' त्ति निवर्ध्य हापयित्वेत्यर्थः, तथा 'रयणिखेत्तस्स' त्ति रजन्या एव 'अभिनिवुत्त' त्ति अभिनिवध्धर्य च वर्द्धयित्वेत्यर्थः, 'चारं चरइ'त्ति भ्राम्यतीत्यर्थः, भावार्थोऽस्यैव चन्द्रप्रज्ञप्तिवाक्यैरुपदश्यते जम्बूद्वीपे यदैती सूर्यौ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतान्यन्योऽन्यमन्तरं कृत्वा चरतः, एतच्च जम्बूद्वीपेऽशीत्युत्तरं योजनशतं प्रविश्याभ्यन्तरं मण्डलं भवति एतस्मिंश्च द्विगुणे जंबूद्वीप- प्रमाणादपकर्षिते यथोक्तमन्तरं भवतीति । तथा तत्र तोश्चरतोरुत्कृष्टोऽष्टादशमुहूर्ती दिवसो भवति जघन्यका च द्वादशमुहूर्ता रात्रिर्भवति, ततोऽभ्यन्तरमण्डलान्निष्क्रम्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसङ्क्रम्य यदा चारं चरतस्तदा नवनवतिर्योजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्यान्तरं कृत्वा चारं चरतः, तदा चाष्टादशमुहूर्ती दिवसो भवति द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यां न्यूनः द्वादशमुहूर्त्ताच रात्रिर्भवति द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामधिकेति, एवं दक्षिणायनस्य द्वितीयादिषु मण्डलेष्वहोरात्रेषु चान्योऽन्यान्तरप्रमाणस्य पञ्चभिः पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य वृद्धिर्वाच्या, द्वाभ्यां द्वाभ्यां च मुहूर्तैकषष्टिभागाभ्यां दिनहानी रात्रिवृद्धिश्चेति, एवं च एकोनचत्वारिंशत्तमे मण्डले सूर्ययोरन्तरं नवनवति सहाण्यष्टशतानि - सप्तपञ्चाशच्च योजनानां त्रयोविंशतिश्चैकषष्टिभागाः, दिनप्रमाणं चाष्टादशानां मुहूर्त्तानां मध्यादेकषष्टिभागानामष्टसप्तत्यां पातितायां षोडश मुहूर्त्ताश्चतुश्चत्वारिंशच्चैकषष्टिभागा मुहूर्त्तस्य, रात्रेस्त्वष्टसप्तत्यां क्षिप्तायां त्रयोदश मुहूर्त्ताः सप्तदशैकषष्टिभागाश्चेति । एवं 'दक्खिणायणनियट्टे' त्ति यथोत्तरायणनिवृत्त एकोनचत्वारिंशत्तमे मण्डले अष्टसप्ततिमेकषष्टिभागान हापयति वर्द्धयति च, एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् हापयति वर्द्धयति च केवलं दक्षिणायने दिनभागान् हापयति रात्रिभागांश्च वर्द्धयति इह तु दिनभागान् वर्द्धयति रात्रिभागाश्च हापयति । समवायः ७८ समाप्तः समवायः - ७९ मू. (१५८) वलयामुहस्स णं पायालस्स हिट्ठिल्लाओ चरमंताओ इमीसे णं रयणप्पभाए पुढवीए हेट्ठिल्ले चरमंते एस णं एगूणासिं जोयणसहस्साइं अवाहाए अंतरे प० । एवं केउस्सवि जूयस्सवि ईसरस्सवि । छट्टीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घनोदहिस्स हेडिल्ले चरमंते एस णं एगूणासीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy