Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 114
________________ समवायः-८४ १११ ॥३॥ एक्कारसुत्तरं हेहिमेसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पञ्चेव अनुत्तरविमाणा ॥ इति भवंतीतिमख्खाय'तिएतानि विमानान्येवं भवन्ति इति-हेतोराख्यातानि भगवतासर्वज्ञत्वात् सत्यवादित्वाच्चेति ।। समवायः-८४ समाप्तः (समवायः-८५) यू. (१६४) आयारस्सणं भगवओ सचूलियागस्स पंचासीइ उद्देसणकाला प० । धायइसण्डस्स णं मंदरा पंचासीइजोयणसहस्साइंसव्वग्गेणं प० । रुयएणं मंडलियपव्वए पंचासीइ जोयणसहस्सां सव्वग्गेणं प० । नंदनवनस्स णं हेडिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरमंते एसणं पंचासीइ जोयणसयाई अबाहाए अंतरे प०। वृ. अथपञ्चाशीतिस्थानके किञ्चिल्लिख्यते, तत्राचारस्य-प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धरूपस्य ‘सचूलियागस्स' इति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकाः तासु च पञ्चमी निशीथाख्येह न गृह्यते भिन्नस्थानरूपत्वात्तस्याः, तासु च प्रथमद्वितीये सप्तसप्ताध्ययनामिके तृतीयचतुर्थावकैकाध्ययनामिके तदेवं सह चूलिकाभिर्वर्त्तत इति सचूलिकाकस्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति, प्रत्यध्ययनं उद्देशनकालानामेतावत्संख्यत्वात्, तथाहि-प्रथमश्रुतस्कन्धे नवस्वध्ययनेषुक्रमेण सप्त७ षट् १३ चत्वार १७श्चत्वारः २१ षट् २७ पञ्च ३२ अष्ट ४० चत्वारः ४४ सप्त ५१ चेति, द्वितीयश्रतस्कन्धेत प्रथमचूलिकायां सप्तस्वध्ययनेषु क्रमेण एकादश ६२ त्रय ६५ स्रयः ८ चर्तुषु द्वौ द्वौ ७६ द्वितीयायां सप्तैकसराणि ८३ अध्ययनान्येवं तृतीयैकाध्ययनात्मिका ८४ एवं चतुर्थ्यपीति ८५ सर्वमीलने पञ्चाशीतिरिति। तथघातकीखण्डमन्दरौ सहस्रमवगाढौ चतुरशीतिसहस्राण्युच्छ्रिताविति पञ्चाशीतियोजनसहस्राणि सर्वाग्रेण भवतः, पुष्करार्द्धमन्दरावप्येवं, नवरं सूत्रे नाभिहितौ विचित्रत्वात्सूत्रगतेरिति, तथारुचको-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितयास्थितः, अत एव मण्डलिकपर्वतो, मण्डलेन व्यवस्थितत्वात्, स च सहस्रमवगाढश्चतुरशीतिरुच्छ्रित इति पञ्चाशीतिः सहसाणि सर्वाग्रेणेति । तथा 'नन्दनवनस्य' मेरोः पञ्चयोजनशतोच्छ्रितायां प्रथममेखलायां व्यवस्थितस्याधस्त्याच्चरमान्तात् । ___ "सौगन्धिककाण्डस्य" रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याष्टमस्य सौगन्धिकाभिधानरलमयस्य गौगन्धिककाण्डस्याधस्त्यश्चरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्यभवति, कथम् ?, पञ्चशतानि मेरोः सम्बन्धीनि प्रत्येकंच सहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमंशीतिशतानीति। समवायः-८५ समाप्तः , (समवायः-८६) मू. (१६५) सुविहिस्स णं पुप्फदन्तस्स अरहओ छलसीइ गणा छलसीइ गणहरा होत्था, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204