Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः - ६२
वासुपूज्यस्येह द्विषष्टिगणा गणधराश्चोक्ता आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति ।। 'सुक्कपरखस्से त्यादि, शुक्लपक्षस्यसम्बन्धी चन्द्रो द्विषष्टिभागान्प्रतिदिनं वद्धत, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञप्त्यामप्युक्तः, तथाहि -- ॥१॥ "किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं ।
चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ। ॥२॥ वावष्टुिं बावढि दिवसे २ य सुक्कपक्खस्स।
जं परिवड्डइ चंदो खवेइ तं चेव कालेण । ॥३॥ पन्नरसयभागेण यचंदं पन्नरसमेव तं चरइ।
पन्नरसयभागेण य पुणोवितं चेववक्कमइ ।। ॥४॥ एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स ।
कालो वा जोण्हा वा एयणुभावेण चंदस्स ।।
___-तथा तत्रैवोक्तम्-। ॥१॥ “सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं।
तत्तियमेत्ते भागे पुणोवि परिवड्डए जोण्हा ।। इति तदेवं भणितद्वयानुसारेणनुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशेचन्द्रदिने सरवे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत्, जीवाभिगमे तु 'बावट्टि २' गाहा तथा ‘पन्नरसतिभागेण' गाथा, एते गाथे एवं व्याख्याते-'बावडिं' २ इत्यत्र द्विषष्टि २ र्भागानां दिवसे २ च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धति चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह-'पन्नरस' इत्यादिना। __'चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारो भागाः समधिका द्विपष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते-पञ्चदशभागेचोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभिर्यथाटे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति । [यद्येकमंशं दर्शयश्चंन्द्रश्चरति एकमेव चांशं राहुश्चरति तदा प्रत्यहं द्वावंशावाच्छादनीयौ जायेतेपञ्चदशमिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्धमाच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं।]
“सोहम्मी'त्यादि, तत्र सौधर्मेशानयोयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोदिशब्रह्मलोकेषट्लान्तके पञ्चशुक्रेचत्वार एवं सहस्रारेआनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्योमोपरिमेषुत्रयः २ अनुतरेष्वेक इति द्विषष्टिस्तेभवन्ति, एतेषांच मध्यभागे प्रत्येकमुडुविमानादिकाःसर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेवविमानेन्द्रका भवन्ति, ततपार्श्वतश्च पूर्वादिषु दिक्षु यचतुरवृत्तविमानक्रमेण विमानानामावलिका भवन्ति, तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे-सर्वाधस्तन इत्यर्थः ।
‘पढमावलियाए"त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्रआवलिका यस्मिन् स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204