SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ समवायः - ६२ वासुपूज्यस्येह द्विषष्टिगणा गणधराश्चोक्ता आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति ।। 'सुक्कपरखस्से त्यादि, शुक्लपक्षस्यसम्बन्धी चन्द्रो द्विषष्टिभागान्प्रतिदिनं वद्धत, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञप्त्यामप्युक्तः, तथाहि -- ॥१॥ "किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ। ॥२॥ वावष्टुिं बावढि दिवसे २ य सुक्कपक्खस्स। जं परिवड्डइ चंदो खवेइ तं चेव कालेण । ॥३॥ पन्नरसयभागेण यचंदं पन्नरसमेव तं चरइ। पन्नरसयभागेण य पुणोवितं चेववक्कमइ ।। ॥४॥ एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा एयणुभावेण चंदस्स ।। ___-तथा तत्रैवोक्तम्-। ॥१॥ “सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं। तत्तियमेत्ते भागे पुणोवि परिवड्डए जोण्हा ।। इति तदेवं भणितद्वयानुसारेणनुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशेचन्द्रदिने सरवे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत्, जीवाभिगमे तु 'बावट्टि २' गाहा तथा ‘पन्नरसतिभागेण' गाथा, एते गाथे एवं व्याख्याते-'बावडिं' २ इत्यत्र द्विषष्टि २ र्भागानां दिवसे २ च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धति चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह-'पन्नरस' इत्यादिना। __'चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारो भागाः समधिका द्विपष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते-पञ्चदशभागेचोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभिर्यथाटे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति । [यद्येकमंशं दर्शयश्चंन्द्रश्चरति एकमेव चांशं राहुश्चरति तदा प्रत्यहं द्वावंशावाच्छादनीयौ जायेतेपञ्चदशमिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्धमाच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं।] “सोहम्मी'त्यादि, तत्र सौधर्मेशानयोयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोदिशब्रह्मलोकेषट्लान्तके पञ्चशुक्रेचत्वार एवं सहस्रारेआनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्योमोपरिमेषुत्रयः २ अनुतरेष्वेक इति द्विषष्टिस्तेभवन्ति, एतेषांच मध्यभागे प्रत्येकमुडुविमानादिकाःसर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेवविमानेन्द्रका भवन्ति, ततपार्श्वतश्च पूर्वादिषु दिक्षु यचतुरवृत्तविमानक्रमेण विमानानामावलिका भवन्ति, तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे-सर्वाधस्तन इत्यर्थः । ‘पढमावलियाए"त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्रआवलिका यस्मिन् स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy