SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९४ समवायाङ्गसूत्रम्-६२/१४० प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादायरभ्य याऽसावावलिकाविमानानुपूर्वी तया अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा-आद्यावलिका तस्यां 'पढमावलिय'त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमावलिका सा द्विषष्टिर्द्विषष्टिर्विमान - प्रमाणेन प्रज्ञप्तेति । ' एगमे गाए 'त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषटिर्विमानानि प्रज्ञप्तानि द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान् विमानानि भवन्ति यावद्दिषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकः पार्श्वे तदेकैकमेव भवतीति, तथा 'सव्वे' त्ति सर्वे वैमानिकानां देवविशेषाणां सम्बन्धिनो द्विषष्टिर्वमानप्रस्तटा-विमान- प्रस्तराः प्रस्तटाग्रेणप्रस्तटपरिमाणे प्रज्ञप्ता इति । समवायः - ६२ समाप्तः समवायः - ६३ मू. (१४१) उसमे णं अरहा कोसलिए तेसट्ठि पुव्वसबसहस्साइं महारायमज्झ वसित्ता मुंडे भवित्ता आगाराओ अनगारियं पव्वइए । हरिवासरम्पयवासेसु मणुस्सा तेवट्टिए राइदिएहिं संपत्तजोव्वणा भवंति, निसढे णं पव्वए तेवट्ठि सूरोदया प० एवं नीलवंतेवि । बृ. अथ त्रिषष्टिस्थानकं, तत्र 'संपत्तजीव्वण' त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः । 'निसहे ण' मित्यादि, किल सूर्यमण्डलानां चतुरशीत्यधिकशतसंख्यानां मध्यात् जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरपर्वतस्योपरि च त्रिषष्टि: सूर्योदयः- सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः । समवायः - ६३ समाप्तः समवाय:- ६४ मू. (१४२) अट्टट्टमियाणं भिक्खुपडिमा चउसट्टिए राइदिएहिं दोहि य अट्टासीएहिं भिक्खासएहिं अहासुत्ते जाव भवइ । चउसद्धिं असुरकुमारावाससयसहस्सा प०, चमरस्स णं रन्नो चउसट्ठि सामाणिय- साहस्सीओ प० । सव्वेवि णं दधिमुहा पव्वया पल्लासंठाणसंठिया सव्वत्थ समा विक्खंभुस्सेहेणं चउसट्ठि जोयणसहस्साइं प० । सोहम्मीसाणेसु वंभलोए य तिसु कप्पेसु चउसट्टिं विमाणावाससयसहस्स प० । सव्वस्सवि य णं रनो चाउरन्तचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिहारे प० । बृ. अथ चतुःषष्टिस्थानकं 'अट्टे' त्यादि, अष्टावष्टामानि दिनानि यस्यां साऽष्टाष्टमिका यस्यां हि अष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टामानि भवन्त्येवेति, भिक्षुप्रतिमा-अभिग्रहविशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy