________________
९२
समवायाङ्गसूत्रम्-६१/१३९
चंदमंडलेणं एगसट्ठिविभागविभइए समंसे प, एवं सूरिस्सवि ।।
६२
६२
वृ. अथ एकषष्टिस्थानकं, तत्र 'पञ्चे 'त्यादि, पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलङ्कारे युगस्य कालमानविशेषस्य ऋतुमासेन न चन्द्रादिमासेन मीयमानस्य एकषष्टि ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ-युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा-चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्विषष्टिभागा अहोरात्रस्वेत्येवंप्रमाणेन २९ १२ / कृष्णप्रतिपदमारभ्य पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं त्रीणि शतान्यह्नां चतुष्पञ्चाशदुत्तराणि द्वादश च द्विपष्टिभागा दिवसस्य ३४५, १२ तथा एकत्रिंशदहांएकविंशत्युत्तरंच शतं चतुर्विंशत्युत्तरशतभागानां दिवसस्येत्यवंप्रमाणोऽभिवर्द्धितमासो भवति, ३११२१ एतेनच मासेनद्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, सच प्रमाणेन त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य ३८३ । ४ / तदेवं त्रयाणां चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सर योरेकीकरणे जातानि (दिनानां) अष्टादश शतानि त्रिंशदुत्तराणि अहोरात्राणां १८३० ऋतुमासश्च त्रिंशताऽहोरारत्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टि ऋतुमासा इति । 'मंदरस्से' त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकषष्टि सहस्राण्युक्तः द्वितीयस्तु अष्टत्रिंशत्स्थानकेऽष्टत्रिंशदिति प्रोक्तः, क्षेत्रसमासे तु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमकाण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं षट्त्रिंशदिति ।
१२४
६२
'चन्द्रमण्डले' चन्द्रविमानं णमित्यलङ्कृतौ 'एगसट्टित्ति योजनस्यैकषष्टितमैभागैर्विभाजितं विभागैर्व्यवस्थापितं समांशं समविभागं प्रज्ञप्तं, न विषमांशं, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्यावशिष्टस्य च भागस्याविद्यमानत्वादिति, एवं सूरस्सवि' ति एवं सूर्यस्यापि मण्डलं वाच्यं, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तत् नचापरमंशान्तरं तस्याप्यस्तीति समांशतेति ।
समवायः - ६१ समाप्तः
समवायः-६२
मू. (१४०) पंचसंवच्छरिए णं जुगे बासट्ठि पुन्निमाओ बासट्ठि अमावसाओ प० । वासुपुजस्स णं अरहओ बासट्ठि गणा बासट्ठि गणहरा होत्था ।
सुक्क पक्खस्स णं चंदे बासट्ठि भागे दिवसे दिवसे परिवढइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहाइ ।
सोहम्मीसाणेसु कम्पेसु पढमे पत्थडे पढभावलियाए एगमेगाए दिसाए बासट्ठि विमाणा प० सव्वे वेमाणियाणं बासट्ठि विमाणपत्थडा पत्थडग्गेणं प० ।
वृ. अथ द्विषष्टिस्थानकं, 'पञ्चेत्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु पटत्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशति पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org