Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 78
________________ समवायः-३४ ७५ तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछनपत्र इत्युक्तं सचासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवाः-अङ्कुराः, सच्छत्रःसध्वजः सघण्टः सपताकोऽशौकवरपादप इत्येकादशः ११ 'ईसि' ति ईषद्-अल्पं पिट्ठओ'त्ति पृष्ठतः पश्चाद्भागे मउडठाणमित्तिमस्तकप्रदेशे तेजोमण्डलं-प्रभापटलमिति द्वादशः १२ बहुसमरमणीयो भूमिभागइति त्रयोदशः १३ 'अहोसिर'त्तिअधोमुखाः कण्टका भवन्तीतिचतुर्दशः १४ ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शाभवन्तीतिपच्चदशः १५योजनंयावत् क्षेत्रशुद्धिसंवर्तकवातेनेति षोडशः १६ 'जुत्तफुसिएणं'ति उचितबिन्दुपातेन 'निहयरयरेणुयं ति वातोत्खातमाकाशवर्ति रजो भूवर्ती तुरेणुरिति गन्धोदशवर्षाबिधानः सप्तदशः १७। जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्ध्वमुखेन दशार्द्धवर्णेनपञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः-पुष्पप्रकरइत्यष्टादशः १८तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगन्धुद्धयाभिरामे भवइत्ति कालागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च-चीडाभिधानं गन्धद्रव्यं तुरुक्कं च-शिल्हकाभिधानंगन्धद्रव्यमितिद्वन्द्वस्ततएतल्लक्षणोयो धूपस्तस्यमधमधायमानो-बहुलसौरभ्यो यो गन्ध उद्धृतः- उद्भूतस्तेनाभिरामं-अभिरमणीयं यत्तत्तथा स्थान-निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९। तथा “उभयोपासिंचणंअरहंताणंभगवंताणंदुवेजक्खा कडयतुडियथंभियभुयाचामरुक्खेवणंकरंति"त्ति कटकानि-प्रकोष्ठाभरणविशेषाःटितानिबाह्याभरणविशेषः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्यस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनाम-पकर्ष-अभाव इत्येकोनविंशतितमः १९ मनोज्ञानांप्रादुर्भाव इति विंशतितमः २० ___'पच्चाहरओ'त्ति प्रत्याहरतो-व्याकुर्वतोभगवतः हिययगमणीओ ति हृदयङ्गमः 'जोयणनीहारी'तियोजनातिक्रमी स्वरइत्येकविंशः२१ 'अद्धमागहीए'त्तिप्राकृतादीनांषन्नांभाषाविशेषाणां मध्ये यामागधी नाम भाषा 'रसोर्लसौमागध्या मित्यादिलक्षणवती साअसमाश्रितस्वकीयसमग्रलक्षणा-ऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२ । भासिज्जमाणि ति भगवताऽभिधीयमाना 'आरियमणारियाणं'ति आर्यानार्यदशोत्पन्नानां द्विपदामनुष्याश्चतुष्पदा-गवादयः ‘मृगा' आटव्याः पशवो' ग्राम्याः पक्षिणःप्रतीताः सरीसृपा-उरःपरिसर्पा भुजपरिसपश्चेिति, तेषां किम्?-आत्मन आत्मनः-आत्मीयया आत्मीययेत्यर्थः भाषातयाभाषाभावेन परीणमतीति सम्बन्धः, किम्भूताऽसौ भाषा? इत्याह-हितम्-अभ्युदयः शिवं-मोक्षः सुखंश्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३ 'पूर्वबद्धवेरे'त्ति पूर्वभवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं-अमित्रभावो येषां ते तथा, तेऽपि चासतामन्येदेवावैमानिका असुरानागाश्च-भवनपतिविशेषाः सुवर्णा-शोभनवर्णोपेतत्वाज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्चव्यन्तरविशेषाएव, एतेषा द्वन्द्वः, पसंतचित्तमाणसा' प्रशान्तानिशमंगतानि चित्राणिरागद्वेषाद्यनेकविधवि-कारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशमयन्ति इति चतुर्विशः २४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204