________________
समवायः-३४
७५
तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछनपत्र इत्युक्तं सचासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवाः-अङ्कुराः, सच्छत्रःसध्वजः सघण्टः सपताकोऽशौकवरपादप इत्येकादशः ११ 'ईसि' ति ईषद्-अल्पं पिट्ठओ'त्ति पृष्ठतः पश्चाद्भागे मउडठाणमित्तिमस्तकप्रदेशे तेजोमण्डलं-प्रभापटलमिति द्वादशः १२ बहुसमरमणीयो भूमिभागइति त्रयोदशः १३ 'अहोसिर'त्तिअधोमुखाः कण्टका भवन्तीतिचतुर्दशः १४ ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शाभवन्तीतिपच्चदशः १५योजनंयावत् क्षेत्रशुद्धिसंवर्तकवातेनेति षोडशः १६ 'जुत्तफुसिएणं'ति उचितबिन्दुपातेन 'निहयरयरेणुयं ति वातोत्खातमाकाशवर्ति रजो भूवर्ती तुरेणुरिति गन्धोदशवर्षाबिधानः सप्तदशः १७।
जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्ध्वमुखेन दशार्द्धवर्णेनपञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः-पुष्पप्रकरइत्यष्टादशः १८तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगन्धुद्धयाभिरामे भवइत्ति कालागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च-चीडाभिधानं गन्धद्रव्यं तुरुक्कं च-शिल्हकाभिधानंगन्धद्रव्यमितिद्वन्द्वस्ततएतल्लक्षणोयो धूपस्तस्यमधमधायमानो-बहुलसौरभ्यो यो गन्ध उद्धृतः- उद्भूतस्तेनाभिरामं-अभिरमणीयं यत्तत्तथा स्थान-निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९। तथा “उभयोपासिंचणंअरहंताणंभगवंताणंदुवेजक्खा कडयतुडियथंभियभुयाचामरुक्खेवणंकरंति"त्ति कटकानि-प्रकोष्ठाभरणविशेषाःटितानिबाह्याभरणविशेषः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्यस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनाम-पकर्ष-अभाव इत्येकोनविंशतितमः १९ मनोज्ञानांप्रादुर्भाव इति विंशतितमः २० ___'पच्चाहरओ'त्ति प्रत्याहरतो-व्याकुर्वतोभगवतः हिययगमणीओ ति हृदयङ्गमः 'जोयणनीहारी'तियोजनातिक्रमी स्वरइत्येकविंशः२१ 'अद्धमागहीए'त्तिप्राकृतादीनांषन्नांभाषाविशेषाणां मध्ये यामागधी नाम भाषा 'रसोर्लसौमागध्या मित्यादिलक्षणवती साअसमाश्रितस्वकीयसमग्रलक्षणा-ऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२ । भासिज्जमाणि ति भगवताऽभिधीयमाना 'आरियमणारियाणं'ति आर्यानार्यदशोत्पन्नानां द्विपदामनुष्याश्चतुष्पदा-गवादयः ‘मृगा' आटव्याः पशवो' ग्राम्याः पक्षिणःप्रतीताः सरीसृपा-उरःपरिसर्पा भुजपरिसपश्चेिति, तेषां किम्?-आत्मन आत्मनः-आत्मीयया आत्मीययेत्यर्थः भाषातयाभाषाभावेन परीणमतीति सम्बन्धः, किम्भूताऽसौ भाषा? इत्याह-हितम्-अभ्युदयः शिवं-मोक्षः सुखंश्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३ 'पूर्वबद्धवेरे'त्ति पूर्वभवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं-अमित्रभावो येषां ते तथा, तेऽपि चासतामन्येदेवावैमानिका असुरानागाश्च-भवनपतिविशेषाः सुवर्णा-शोभनवर्णोपेतत्वाज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्चव्यन्तरविशेषाएव, एतेषा द्वन्द्वः, पसंतचित्तमाणसा' प्रशान्तानिशमंगतानि चित्राणिरागद्वेषाद्यनेकविधवि-कारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशमयन्ति इति चतुर्विशः २४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org