SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-३४/११० बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत-अन्यतीर्थिकप्रावचनिकाअपिचणं वन्दन्ते भगवन्ममिति गम्यते इति पञ्चविंशः २५ आगताः सन्तोऽर्हतः पादमूले निष्प्रितिवचना भवन्ति इति षडविंशः २६ 'जओ जओऽवि य णति यत्र यत्रापि च देशे 'तओ तओ'ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु ईति-धान्याधुपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः २७ मारि-जनमरक इत्यष्टाविंशः २८ स्वचक्र-स्वकीयराजसैन्यं तदुपद्रवकारि न भवतीति एकोनत्रिंशः २९ एवं परचक्रं-परराजसैन्यमिति त्रिंशः ३० अतिवृष्टि-अधिकवर्ष इत्येकत्रिंशः ३१अनावृष्टि-वर्षणाभाव इति द्वात्रिंशः ३२ दुर्भिक्षं-दुष्काल इतित्रयशिः३३ 'उप्पाइया वाहित्ति उत्पाताः-अनिष्टसूचका रुधिरवृष्टयादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा व्याघयोज्वराधास्तदुपशमः-अभाव इति चतुर्शित्तमः ३४ । . अन्यच्च ‘पञ्चाहरओ' इत आरभ्य येऽभिहितास्ते प्रभामण्डलंच कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरभवगन्तव्यमिति । 'चक्कवट्टिविजय'त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि 'उक्कोसपए चोत्तीसं तित्थगरा समुप्पजंति'त्तिसमुत्पद्यन्ते सम्भवन्तीत्यर्थः न त्वेकसमयेजायन्ते, चतुर्णामेवैकदा जन्मसम्भवात, तथाहि-मेरौपूर्वापरशिलातलयो वे सिंहासने भवतोऽतो द्वौ द्वावेवाभिषिच्येते अतोद्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानी दिवससद्भावात् न भरतैरावतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति। 'पढमे'त्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि, पच्चम्यां त्रीणिषष्ठया पच्चोनं लक्षणं सप्तम्यां पञ्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति । समवायः-३४ समाप्तः (समवायः-३५) मू. (१११) पणतीसं सच्चवयणाइसेसा प, कुंथू णं अरहा पणतीसं धणूई उद्धं उच्चत्तेणं होत्था।" दत्तेणं वासुदेवे पणतीसंधणूइं उड्ढे उच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीस धणूइं उड़ उच्चत्तेणं होत्या। सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयखंभे हेवा उपरिच अद्धतेरस अद्धतेरस जोयणाणि वजेत्ता मज्झे पणतीस जोयणेसु वइरामएसु गोलवट्टसमुग्गएसु जिणसकहाओ प० बितियचउत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा प० । वृ. पञ्चत्रिशत्तमस्थानकं सुगमं । नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते तु ग्रन्थान्तरदृष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यं, तद्यथा-संस्कारवत् १ उदात्तं २ उपचारोपेतं ३ गम्भीरशब्दं ४ अनुनादि ५ दक्षिणं ६ उपनीतरागं७ महार्थं ८ अव्याहतपौर्वापर्यं ९ शिष्टं १० असन्दिग्धं ११ अपहतान्योत्तरं १२ हृदयग्राहि १३ देशकालाव्यतीतं १४ तत्तवानुरूपं १५ अप्रकीर्णप्रसृतं १६ अन्योऽन्यप्रगृहीतं १७। अभिजातं १८ अतिस्निग्धमधुरं १९ अपरमर्मविद्धं २० अर्थधर्माभ्यासानपेतं२१ उदारं २२ परनिन्दात्मोत्कर्षिप्रयुक्तं २३ उपगतश्लाघ २४ अनपनीतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy