________________
समवायः - ३५
२५ उत्पादिताच्छिन्नकौतूहलं २६ अद्भुतं २७ अनतिविलम्बितं २८ विभ्रमविक्षेपकिलिकिच्चितादिविमुक्तं २९ अनेकजातिसंश्रयाद्विचित्रं ३० आहितविशेषं ३१ साकारं ३२ सत्त्वपरिग्रहं ३३ अपरिखेदितं ३४ अव्युच्छेदं ३५ चेति वचनं महानुभावैर्वक्तव्यमिति ।
७७
तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वं १ उदात्तत्वं- उच्चैर्वृत्तिता २ उपचारोपेतत्वंअग्राम्यता ३ गम्भीरशब्दुं मेघस्येव ४ अनुनादित्वं प्रतिरवोपेतता ५ दक्षिणत्वं सरलत्वं ६ उपनीतरागत्वं-मालकोशादि ग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिघेयता ८ अव्याहतपौर्वापर्यत्वं पूर्वापरवाक्याविरोधः ९ शिष्टत्वं- अभिमतसिद्धान्तोत्कार्यता वक्तुः शिष्टतासूचक्वं वा १० असन्दिग्धत्वं असंशयकारिता ११ अपहतान्योत्तरत्वं- परदूषणावि, यता १२ ह्रदयग्राहित्वं श्रोतृमनोहरता १ ३ देशकालाव्यतीतत्वंप्रस्तावोचितता १४ तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता १५ अप्रकीर्णप्रसृतत्वं- सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बन्धानधिकारित्वातिविस्तरयोरभावः १६ अन्योऽन्यप्रगृहीतत्वंपरस्परण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८ अतिस्निग्धमधुरत्वं अमृतगुडादिवत् सुखकारित्वं १९ अपरममवेधित्वं परमर्मानुदधट्टनस्वरूपत्वं २०
अर्थधर्माभ्यासानपेतत्वं अर्थधर्मप्रतिबद्धत्वं २१ । उदारत्वं अभिधेयार्थस्यातुछत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ उपगतश्लाधत्वंउक्तगुणयोगात्प्रातश्लाधता २४ अनपनीतत्वं- कारककालव- चनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्कौतूहलत्वं, -स्वविषये श्रोतृणा जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्तंव २६ अद्भुतत्वं अनतिविलम्बितत्वं च प्रतीतं २७-२८ विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तत्वंविभ्मो- वक्तृमनसो भ्रान्तता विक्षेपः तस्यैवाभिधेयार्थं प्रत्यनासक्ता किलिकिञ्चितं रोषभयाभिलाषादिभावानां युगपद्वा सकृत्करणमा- दिशब्दन्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा तद्भावस्तत्त्वं २९ अनेकजातिसंयाद्विचित्रत्वं इह जातयो वर्णनीयवस्तुरूपवर्णनानि ३० आहितविशेषत्वं वचनान्तरापेक्षया ढौकितविशेषता ३१ साकारत्वंविच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्त्वपरिगृहीतत्वं साहसोपेतता ३३ अपरिखेदितत्वं - अनायाससम्भव - ३४ अव्युच्छेदित्वं विवक्षितार्थानां सम्यकसिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति ३५ ॥
तथा दत्तः-सप्तमवासुदेवः नन्दनः- सप्तमबलदेवः, एतयोश्चावश्यकाभिप्रायेण षडविंशतिधनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोऽरनाथमल्लिस्वामिनोरन्तरे तावभिहितौ, यतोऽवाचि"अरमल्लिअंतरे दोन्नि केसवा पुरिसपुंडरीय दत्तत्ति, अरनाथमल्लिनाथयोश्च क्रमेण त्रिंशत्पचविंशतिश्च धनुषामुच्चत्वं, एतदन्तरालवर्त्तिनोश्च वासुदेवयोः षष्ठसप्तमयोरेकोन- त्रिंशत्षडविंशतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्तनन्दनौ कुन्थुनाथ तीर्थकाले भवतो, न चैतदेवं जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति ।
सीधर्मकल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भवन्ति-सुधर्मसभा १ उपपातसभा २ अभिषेकसभा ३ अलङ्कारसभा ४ व्यवसायसभा ५, तत्र सुधर्मसभामध्यभागे मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र 'वइरामएसु' त्ति वज्रमयेषु तथा गोलवद्वृत्ता वर्तुला ये समुद्गका भाजनविशेषास्तेषु 'जिणसकहाओ' त्ति जिनसक्धीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org