Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 32
________________ समवायः-१२ सत्तराइंदिआभिक्खुपडिमा तच्च सत्तराइंदिआभिक्खुपडिमा अहोराइआ भिक्खुपडिमा एगराइया भिक्खुपडिमा। दुवालसविहे सम्भोगे प० तं० वृ.द्वादशस्थानमथ, तच्च सुगम, नवरं स्थितिसूत्रेभ्योऽर्वागेकादश सूत्राण्याह, तत्र भिक्षूणां विशिष्टसंहननश्रुतवतां प्रतिमाः-अभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्तमासेनमासेनोत्तरोत्तरं वृद्धा एकैकाभिर्भक्तपानदत्तिभिश्चेति, तथा सप्तरात्रिन्दिवानि-अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिस्रो भवन्तीति, सप्तानामुपर्यष्टमी प्रथमा सप्तरात्रिन्दिवा एवं नवमी द्वितीया दशमी तृतीया, आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथाहि-अष्टम्यां चतुर्थभक्तं तपः ग्रामादेवहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथाअहोरात्रप्रमाणाऽहोरात्रिकी एकादशी,साच षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, साचाटमभक्तपर्यन्तरात्रौ प्रलम्बभुजस्य संहतपादस्येषदवनतकायस्यानिमेषनयनस्येति । मू. (२१) उवहीसुअभत्तपाणे, अंजलीपग्गहेत्तिय। दायणे य निकाए अ, अब्भुट्ठाणेति आवरे ।। वृ. तथा सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः । स चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र ‘उवही त्यादिरूपकद्वयं, तत्रोपधिवस्त्रपात्रा- दिस्तं सम्भोगिकः सम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृहणन् शुद्धः अशुद्धं गृहणन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन-पावस्थादिना वा संयत्या वा सार्द्धमुपधिं शुद्धमशुद्धं वा निष्कारणं गृहणन प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरिन सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तं च - ॥१॥ “एगं व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं। ___ आउटुंतेवि तओ परेण तिण्हं विसंभोगो । त्ति 'सुयत्ति' सम्भोगिकस्यान्यसांभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् तथा शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानपसम्पन्नस्य वापार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वंस्तथैव वेलात्रयोपरिविसम्भोग्यः, तथा भत्तपाणे'त्ति उपधिद्वारवदवसेयं, नवरमिह भोजनं दानं चपरिकर्मपरिभोगयोः स्थानेवाच्यमिति, तथा 'अंजलीपग्गहेत्तिय' इहेतिशब्दा उपदर्शनार्थाः चकाराः समुच्चयार्था, तत्रोपलक्षणत्वाझलिप्रग्रहस्य वन्दनादिकमपीह द्रष्टव्यं, तथाहि-सम्भोगिकानामन्यसम्भोगिकानां वा संविग्नानां वन्दनकं-प्रणाममञ्जलिप्रग्रहं सम्भोग्यो विसम्भोग्यश्चेति, तथा 'दायणेयत्तिदानं, तत्र सम्भोगिकः सम्भोगिकायऽन्यसम्भोगिकाय वा शिष्यगणंयछन्शुद्धः निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्वावातंयच्छंस्तथैवसम्भोग्यो विसम्भोग्यश्चेति,तथा 'निकाएय'त्ति निकाचनंछन्दनं निमन्त्रणमित्यनन्तरं, तत्रशय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च सम्भोगिकः सम्भोगिक निमन्त्रयन् शुद्धः, शेषं तथैव, तथा 'अब्भुट्ठाणेत्ति यावरे'त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204