Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 172
________________ भाष्यगाथाः ५४००-८] चतुर्थ उद्देशः । १४३५ खयमेव कदाचिद् गच्छेत् पूर्वाचार्येण वा नीयेत, कालदोषेण वा ममत्वीभावमालम्ब्य वाचयिष्यन्ति इति दिग्बन्धोऽनुज्ञातः ॥ ५४०४ ॥ इदमेव सविशेषमाह ससहायअवत्तेणं, खेत्ते वि उपट्टियं तु सच्चित्तं । दलियं णाउं बंधति, उभयममत्तट्टया तं वा ॥ ५४०५ ॥ अव्यक्तेन ससहायेन यः शैक्षो लब्धो यश्च परक्षेत्रेऽपि उपस्थितः सचित्तः स पूर्वाचार्यस्य 5 क्षेत्रिकाणां वा यद्यपि आभाव्यस्तथापि तं 'दलिकं' परममेधाविनमाचार्यपदयोग्यं ज्ञात्वा यद्यात्मीये गच्छे नास्त्याचार्यपदयोग्यस्ततस्तस्यात्मीयां दिशं बध्नाति, स्वशिष्यत्वेन स्थापयतीत्यर्थः । कुतः ? इत्याह-उभयस्य-साधु-साध्वीवर्गस्य तत्र शैक्षे ममत्वम्-'अस्माकमयम् इत्येवं ममीकारो भूयात्' इति कृत्वा, यद्वा स्वगच्छीयसाधूनां तस्य च शैक्षम्य 'परस्परं सज्झिलका वयम् इत्येवं ममत्वं भविष्यति' इति बुद्ध्या तमात्मीयशिष्यत्वेन बध्नाति । "तं व" त्ति यो वा 10 प्रतीच्छक आयातस्तमपि ग्रहण-धारणासमर्थ विज्ञाय व शिष्यं स्थापयति ॥ ५४०५ ॥ एवं शैक्षः प्रतीच्छको वा कारणे शिष्यतया निबद्धः सन् यदा निर्मातो भवति तदा आयरिए कालगते, परियट्टइ तं गणं च सो चेव । चोएति य अपदंते, इमा उ तहिं मग्गणा होइ ॥ ५४०६ ॥ आचार्ये कालगते सति गच्छस्य निबद्धाचार्यस्य च व्यवहारो भण्यते-स खयमेव तं 15 गणं परिवर्तयति । स च गच्छो यदि श्रुतं न पठति ततस्तमपठन्तं नोदयति । यदि नोदिता अपि ते गच्छसाधवो न पठन्ति तत इयमाभवद्व्यवहारमार्गणा भवति ॥ ५४०६ ॥ साहारणं तु पढमे, वितिए खित्तम्मि ततिय सुह-दुक्खे । अणहिजंते सीसे, सेसे एकारस विभागा ॥ ५४०७ ।। कालगतस्याचार्यस्य प्रथमे वर्षे सचित्तादिकं साधारणम् , यदसौ प्रतीच्छकाचार्य उत्पादयति 20 तत् तस्यैवाभवति यद् इतरे गच्छसाधव उत्पादयन्ति तत् तेषामेवाभवतीति भावः । द्वितीये वर्षे यत् क्षेत्रोपसम्पन्नो लभते तत् तेऽपठन्तो लभन्ते । तृतीये वर्षे यत् सुख-दुःखोपसम्पन्नो लभते तत् ते लभन्ते । चतुर्थे वर्षे कालगताचार्यशिष्या अनधीयाना न किञ्चिल्लभन्ते । शेषा नाम-येऽधीयते तेषामधीयानानां वक्ष्यमाणा एकादश विभागा भवन्ति ॥ ५४०७ ॥ शिष्यः पृच्छति-क्षेत्रोपसम्पन्नः सुख-दुःखोपसम्पन्नो वा किं लभते ? सूरिराह- 25 खेत्तोवसंपयाए, बावीसं संथुया य मित्ता य । सुह-दुक्ख मित्तवज्जा, चउत्थए नालबद्धाई ॥ ५४०८ ॥ क्षेत्रोपसम्पदा उपसम्पन्नः 'द्वाविंशतिम्' अनन्तर-परम्परावल्लीबद्धान् माता-पित्रादीन् जनान् लमते, 'संस्तुतानि च' पूर्व-पश्चात्संस्तवसम्बद्धानि प्रपौत्र-श्वशुरादीनि 'मित्राणि च' सहजातकादीनि लभते, दृष्टाभाषितानि तु न लभते । सुख-दुःखोपसम्पन्नस्तु एतान्येव मित्रवर्जानि लभते । चतुर्थस्तु-पञ्चविधोपसम्पत्क्रमप्रामाण्यात् श्रुतोपसम्पन्नः स केवलान्येव द्वाविंशतिनालबद्धानि लभते, अयं च प्रसङ्गेनोक्तः । क्षेत्रोपसम्पन्न-सुखदुःखोपसम्पन्नयोर्यद् आभाव्यमुक्तं १ भते ? इत्यपि तावद् वयं न जानीमहे; सूरि° कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340