Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 272
________________ भाष्यगाथाः ५८१७-२२] पञ्चम उद्देशः । १५३५ तत्र लघुकस्थानादारब्धा लघुका गुरुकस्थानादारब्धा गुरुका भवति । अत्र च मासलघुकादारब्धा अतः सर्वाण्यपि लघूनि द्रष्टव्यानि ॥ ५८१९ ॥ भिक्खुस्स ततियगहणे, सट्ठाणं होइ दव्वनिप्फन्न । भावम्मि उ पडिलोमं, गणि-आयरिए वि एमेव ।। ५८२० ॥ भिक्षोद्धितीयवारं द्वैमासिकादारब्धं छेदे तिष्ठति, तृतीयवारं ग्रहणे त्रैमासिकादारब्धं 'खस्थानं मूलं यावद् नेयम् । एवं द्रव्यनिष्पन्नं प्रायश्चित्तमुक्तम् । भावनिष्पन्नं पुनरेतदेव प्रतिलोमं मन्तव्यम् । गणिन आचार्यस्यापि द्रव्य-भावयोरुभयोरप्येवमेव प्रायश्चित्तम् । नवरम्उपाध्यायस्य द्वैमासिकादारब्धं त्रिभिर्वारैरनवस्थाप्ये, आचार्यस्य त्रैमासिकादारब्धं त्रिभिवारैः पाराश्चिके पर्यवस्यति ॥ ५८२० ॥ गतस्तपोऽसंस्तृतः । अथ ग्लानासंस्तृतमाहएमेव य गेलन्ने, पट्टवणा णवरि तत्थ भिण्णेणं । 10 चउहि गहणेहिँ सपदं, कास अगीतत्थ सुत्तं तु ॥ ५८२१ ॥ ग्लानासंस्तृतस्याप्येवमेव प्रायश्चित्तम् । नवरम्-तंत्र "भिन्नेणं" ति भिन्नमासात् प्रस्थापना कर्तव्या । प्रथमं वारं पञ्चमासलघुके, द्वितीयं षण्मासलघुके, तृतीयं छेदे, चतुर्थ वारं मूले तिष्ठति । अत एवाह-'चतुर्भिग्रहणैः' अभीक्ष्णसेवारूपैः 'खपदं' मूलं भिक्षुः प्राप्नोति । उपाध्यायस्य लघुमासादारब्धं चतुर्भिर्वारैरैनवस्थाप्ये, आचार्यस्य द्विमासलघुकादारब्धं चतुर्भिवीरैः 15 पाराश्चिके पर्यवस्यति । शिष्यः पृच्छति-कस्यैतत् प्रायश्चित्तम् ? सूरिराह-यद् उक्तं यच्च वक्ष्यमाणम् एतत् सर्वमगीतार्थस्य सूत्रं भवति, प्रस्तुतसूत्रोक्तं प्रायश्चित्तमित्यर्थः । स हि कार्यमकार्य वा यतनामयतनां वा न जानाति अतस्तस्य प्रायश्चित्तम् ॥ ५८२१ ॥ गतो ग्लानासंस्तृतः । अथावासंस्र्तृतमाह-. अद्धाणासंथडिए, पवेस मज्झे तहेव उत्तिण्णे । मज्झम्मि दसगवुड्ढी, पवेस उत्तिण्णि पणएणं ॥ ५८२२ ॥ 'अध्वनि' मार्गे योऽसंस्तृतः स त्रिविधः । तद्यथा--अध्वनः प्रवेशे मध्ये उत्तारे च । तत्र प्रथमं मध्ये भाव्यते-भिक्षोः संलेखनादिषु षट्सु स्थानेषु दशरात्रिन्दिवमादौ कृत्वा प्रायश्चित्तवृद्धिः कर्तव्या, उपाध्यायस्य पञ्चदशरात्रिन्दिवादिकम् , आचार्यस्य विंशतिरात्रिन्दिवादिकं प्रायश्चित्तम् । भावे एतदेव प्रतिलोमं वक्तव्यम् । अथ प्रवेशे उत्तरणे च भण्यते-"पवेस 25 उत्तिण्ण पणएणं" ति प्रवेशे तथा उत्तरणमुत्तीर्णं तत्र च पञ्चकेन स्थापना क्रियते, संलेखनादिषु षट्सु पदेषु पञ्चरात्रिन्दिवान्यादौ कृत्वा मासलघुकं यावद् नेतव्यमिति भावः । तथा उभयोरपि अष्टभिवोरैर्मूलं प्रामोति, उपाध्यायस्य दशरात्रिन्दिवादिकमष्टमवारायामनवस्थाप्यम् , १ संस्कृत भा० ॥ २ 'तत्र' ग्लानासंस्तृते "भिनेणं" ति विभक्तिव्यत्ययाद् भिन्नमासात् प्रस्थापना कर्त्तव्या । ततश्च प्रथमं वारं भिन्नमासादारब्धं पञ्चमासगुरुके, द्वितीयं वारं लघुमासादारब्धं षण्मासलघुके, तृतीयं वारं द्वैमासिकादारब्धं छेदे, चतुर्थ वारं त्रैमासिकादारब्धं मूले तिष्ठति । अत कां० ॥ ३ जानीते अत° भा० डे० ॥ ४ संस्कृत भा• ॥ ५ °संस्कृतः भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340