________________
भाष्यगाथाः ५८१७-२२]
पञ्चम उद्देशः ।
१५३५
तत्र लघुकस्थानादारब्धा लघुका गुरुकस्थानादारब्धा गुरुका भवति । अत्र च मासलघुकादारब्धा अतः सर्वाण्यपि लघूनि द्रष्टव्यानि ॥ ५८१९ ॥
भिक्खुस्स ततियगहणे, सट्ठाणं होइ दव्वनिप्फन्न ।
भावम्मि उ पडिलोमं, गणि-आयरिए वि एमेव ।। ५८२० ॥ भिक्षोद्धितीयवारं द्वैमासिकादारब्धं छेदे तिष्ठति, तृतीयवारं ग्रहणे त्रैमासिकादारब्धं 'खस्थानं मूलं यावद् नेयम् । एवं द्रव्यनिष्पन्नं प्रायश्चित्तमुक्तम् । भावनिष्पन्नं पुनरेतदेव प्रतिलोमं मन्तव्यम् । गणिन आचार्यस्यापि द्रव्य-भावयोरुभयोरप्येवमेव प्रायश्चित्तम् । नवरम्उपाध्यायस्य द्वैमासिकादारब्धं त्रिभिर्वारैरनवस्थाप्ये, आचार्यस्य त्रैमासिकादारब्धं त्रिभिवारैः पाराश्चिके पर्यवस्यति ॥ ५८२० ॥ गतस्तपोऽसंस्तृतः । अथ ग्लानासंस्तृतमाहएमेव य गेलन्ने, पट्टवणा णवरि तत्थ भिण्णेणं ।
10 चउहि गहणेहिँ सपदं, कास अगीतत्थ सुत्तं तु ॥ ५८२१ ॥ ग्लानासंस्तृतस्याप्येवमेव प्रायश्चित्तम् । नवरम्-तंत्र "भिन्नेणं" ति भिन्नमासात् प्रस्थापना कर्तव्या । प्रथमं वारं पञ्चमासलघुके, द्वितीयं षण्मासलघुके, तृतीयं छेदे, चतुर्थ वारं मूले तिष्ठति । अत एवाह-'चतुर्भिग्रहणैः' अभीक्ष्णसेवारूपैः 'खपदं' मूलं भिक्षुः प्राप्नोति । उपाध्यायस्य लघुमासादारब्धं चतुर्भिर्वारैरैनवस्थाप्ये, आचार्यस्य द्विमासलघुकादारब्धं चतुर्भिवीरैः 15 पाराश्चिके पर्यवस्यति । शिष्यः पृच्छति-कस्यैतत् प्रायश्चित्तम् ? सूरिराह-यद् उक्तं यच्च वक्ष्यमाणम् एतत् सर्वमगीतार्थस्य सूत्रं भवति, प्रस्तुतसूत्रोक्तं प्रायश्चित्तमित्यर्थः । स हि कार्यमकार्य वा यतनामयतनां वा न जानाति अतस्तस्य प्रायश्चित्तम् ॥ ५८२१ ॥ गतो ग्लानासंस्तृतः । अथावासंस्र्तृतमाह-.
अद्धाणासंथडिए, पवेस मज्झे तहेव उत्तिण्णे ।
मज्झम्मि दसगवुड्ढी, पवेस उत्तिण्णि पणएणं ॥ ५८२२ ॥ 'अध्वनि' मार्गे योऽसंस्तृतः स त्रिविधः । तद्यथा--अध्वनः प्रवेशे मध्ये उत्तारे च । तत्र प्रथमं मध्ये भाव्यते-भिक्षोः संलेखनादिषु षट्सु स्थानेषु दशरात्रिन्दिवमादौ कृत्वा प्रायश्चित्तवृद्धिः कर्तव्या, उपाध्यायस्य पञ्चदशरात्रिन्दिवादिकम् , आचार्यस्य विंशतिरात्रिन्दिवादिकं प्रायश्चित्तम् । भावे एतदेव प्रतिलोमं वक्तव्यम् । अथ प्रवेशे उत्तरणे च भण्यते-"पवेस 25 उत्तिण्ण पणएणं" ति प्रवेशे तथा उत्तरणमुत्तीर्णं तत्र च पञ्चकेन स्थापना क्रियते, संलेखनादिषु षट्सु पदेषु पञ्चरात्रिन्दिवान्यादौ कृत्वा मासलघुकं यावद् नेतव्यमिति भावः । तथा उभयोरपि अष्टभिवोरैर्मूलं प्रामोति, उपाध्यायस्य दशरात्रिन्दिवादिकमष्टमवारायामनवस्थाप्यम् ,
१ संस्कृत भा० ॥ २ 'तत्र' ग्लानासंस्तृते "भिनेणं" ति विभक्तिव्यत्ययाद् भिन्नमासात् प्रस्थापना कर्त्तव्या । ततश्च प्रथमं वारं भिन्नमासादारब्धं पञ्चमासगुरुके, द्वितीयं वारं लघुमासादारब्धं षण्मासलघुके, तृतीयं वारं द्वैमासिकादारब्धं छेदे, चतुर्थ वारं त्रैमासिकादारब्धं मूले तिष्ठति । अत कां० ॥ ३ जानीते अत° भा० डे० ॥ ४ संस्कृत भा• ॥ ५ °संस्कृतः भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org