________________
१५३४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत ० प्रकृते सूत्रम् ६-९
कतरस्मिन् वर्तते । भङ्गाः पुनरत्रेत्थमुच्चारणीयाः – उदयं प्रतीत्य विचिकित्से मनःसङ्कल्पे सति विचिकित्सितगवेषी विचिकित्सितग्राही विचिकित्सितभोजी, एवमष्टौ भङ्गाः; अस्तमनमपि प्रतीत्यैवमेवाष्टौ भङ्गाः । द्वयोरप्यष्टभन्योः प्रथम द्वितीय - चतुर्था ऽष्टमा भङ्गा घटमानकत्वाद् शेषाश्चत्वारोऽग्राह्याः || ५८१६ ॥ गतं द्वितीयं संस्तृत विचिकित्ससूत्रम् । अथ तृतीयमसंस्तुतनिर्विचिकित्ससूत्रं व्याचिख्यासुराह -
ग्राह्याः,
तव - गेलन - ऽद्धाणे, तिविहो तु असंथडी विहे तिविहो । तवऽस्थड मीसस्सा, मासादारोवणा इणमो ।। ५८१७ ॥
असंस्कृतो नाम षष्ठाऽष्टमादिना तपसा क्लान्तो १ ग्लानत्वेन वाऽसमर्थो २ दीर्घाध्वनि वा गच्छन् पर्याप्तं न लभते ३, एष त्रिविधोऽसंस्तृतः । " विहे तिविहो" त्ति 'विहे' अध्वनि 10 योऽसंस्तृतः स त्रिविधः, तद्यथा - अध्वप्रवेशेऽध्वमध्येऽध्वोत्तारे च । तत्र तपोऽसंस्तृतस्य निर्विचिकित्सस्य मासादिका इयमारोपणा भवति । "मीसस्स" त्ति मिश्रो नाम - विचिकित्सा - समापन्नस्तस्यापि मासादिरारोपणा कर्तव्या । सा चोत्तरत्राभिधास्यते । इहापि पूर्वक्रमेण षोडश लताः कर्तव्याः, कालनिष्पन्नं च प्रायश्चित्तं प्राग्वत् ॥ ५८१७ ॥ द्रव्य-भावप्रायश्चित्तयोस्त्वयं विशेषः --- तपोऽसंस्तृतो विकृष्टतपः क्लान्तः पारणकेऽनुद्गतेऽस्तमिते वा उदिता - नस्तमितबुद्ध्या 15 भक्त- पानीये भुञ्जानो यदाऽनुद्गतमस्तमितं वा जानाति ततः परं भुञ्जानस्येदं प्रायश्चित्तम्एक-दुग- तिण्णि मासा, चउमासा पंचमास छम्मासा । सव्वे वि होंति लहुगा, एगुत्तरवड्डिया जेणं ॥ ५८१८ ॥
संलेखनाशेषं यदि ज्ञाते भुङ्क्ते तत एकमासिकम् । पञ्च कवलान् समुद्दिशति द्विमासिकम् । दश लम्बनान् समुद्दिशति त्रैमासिकम् । पञ्चदश कवलान् भुञ्जानस्य चतुर्मासिकम् । विंशर्ति 20 भुञ्जानस्य पञ्चमासिकम् । अथ पञ्च कवला विशुद्धभावेन समुद्दिष्टाः शेषान् पञ्चविंशतिकवलान् ज्ञाते भुङ्क्ते ततः षाण्मासिकम् । एतानि सर्वाण्यपि लघुकानि प्रायश्चित्तानि भवन्ति । कुतः ? इत्याह-येन कारणेनैकोत्तरवृद्ध्या द्वित्र्यादिरूपया अमूनि वर्द्धितानि ॥ ५८१८ ॥ इदमेव व्यनक्ति
दुविहाय हो बुढी, सहाणे चेव होइ परठाणे |
साणम्मि उ गुरुगा, परठाणे लहुग गुरुगा वा ॥ ५८१९ ॥ द्विविधा च भवति वृद्धिः । तद्यथा – स्वस्थानवृद्धिः परस्थानवृद्धिश्च । स्वस्थानवृद्धिर्नियमाद् गुरुका भवति, तथाहि - यदा मासलघुकाद् मासमेव खस्थानं सङ्क्रामति तदा नियमाद् मासगुरुकमेव, एवं द्विमासलघुकाद् द्विमासगुरुकम्, यावत् षण्मासलघुकात् षण्मासगुरुकम् । → पँरस्थानवृद्धिस्तु विसदृशसङ्ख्या का वृद्धि:, यथा -- मासाद् द्वौ मासौ, द्वाभ्यां मासाभ्यां त्रयो 30 मासाः, एवं यावत् पञ्चमासात् षण्मासाः । एषा - परस्थानवृद्धिर्लघुका वा गुरुका वा भवेत् ।
25
१-२ संस्कृत भा० ॥ ३ असंखडी डे० । असंघडी भा० ॥ ४ संखड डे० । संघड भा० ॥ ५ असंस्कृतो भा० ॥ ६ 'संस्कृत' भा० ॥ ७ 'संस्कृतो भा० ॥ र्गतः पाठः भा० कां० एव वर्त्तते
एतचिह्नान्त
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org