SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पञ्चम उद्देशः । १५३३ भाष्यगाथाः ५८०९-१६ ] तस्यैकं स्थानकं वर्द्धयेत्, तं प्रतीत्य " तं भुंजमाणे अन्नेसिं वा दलमाणे आवज्जइ चाउम्मासिय परिहाराणं अणुग्धाइयं" इत्युत्तरं सूत्रखण्डं वर्धयेदिति भावः ॥ ५८१२ ॥ अथ विवेचन-विशोधनपदे व्याचष्टे - सव्वस्स छड्डण विगिंचणा उ मुह-हत्य- पादछुस्स । फुसण धुवणा विसोहण, सकिं व बहुसो व णाणत्तं ।। ५८१३ ।। अनुदितमस्तमितं वा ज्ञात्वा यद् मुखे प्रक्षिप्तं तस्य ज्ञाते सति खेलमल्लके यत् प्रक्षेपणम्, यच हस्ते - पाणौ तस्य प्रतिग्रहे, यत् पात्रे - प्रतिग्रहे तस्य स्थण्डिले, एवं सर्वस्यापि यत् परिष्ठापनं सा विवेचना । यत् तु "फुसणं" हस्तेनामर्शनं 'धावनं' कल्पकरणं सा विशोधना । अथवा 'सकृत् ' एकशः परिष्ठापन - स्पर्शन- धावनानां करणं विवेचना, एतेषामेव बहुशः करणं विशोधनम् । एतद् विवेचन-विशोधनयोर्नानात्वमुक्तम् ॥ ५८१३ ॥ अथ "नो अइक्कमइ " ति पदं व्याख्याति - 5 नातिकमती आणं, धम्मं मेरं व रातिभत्तं वा । अत्तगागी वा, सय भुंजे सेस देजा वी ॥। ५८१४ ॥ एवं विविञ्चन् विशोधयन् वा तीर्थकृतामाज्ञां नातिक्रामति । अथवा श्रुतधर्मं चारित्र - मर्यादा रात्रिभक्तं वा नातिक्रामति । "तं भुंजमाणे अन्नेसिं वा दलमाणे" त्ति पदद्वयं 15 व्याख्यायते – “अत्तट्टे” इत्यादि, 'आत्मार्थिकः ' आत्मलाभाभिग्रही कारणे वा य एकाकी स स्वयं भुङ्क्ते नान्येषां ददाति । 'शेषः पुनः' अनात्मलाभी अनेकाकी वा स अन्येषामपि दद्यात् स्वयमपि भुञ्जीत ॥ ५८१४ ॥ गतं प्रथमं संस्तुतनिर्विचिकित्ससूत्रम् । अथ द्वितीयं संस्तृत विचिकित्ससूत्रं व्याख्यातिएवं वितिगिच्छो वी, दोहि लहू णवरि ते तु तव काले । तस्स पुण हवंति लता, अट्ठ असुद्धा ण इतरातो ॥ ५८१५ ॥ विचिकित्सते- 'किं उदितो रविः ? उत अनुदितः ?' इत्यादि संशयं करोतीति विचिकित्सः, सोऽप्येवमेव वक्तव्यः । नवरम् — यानि तस्य तपोऽर्हाणि प्रायश्चित्तानि तानि तपसा कालेन च लघुकानि । ' तस्य च ' विचिकित्सस्य पुनरशुद्धा एव केवला अष्टौ लता भवन्ति न 'श्तराः ' शुद्धाः, सङ्कल्पस्य शङ्कितत्वेन प्रतिपक्षाभावात् ॥ ५८१५ ॥ कथं पुनरसौ शङ्कां करोति ? इत्याह १ 'नः' आत्म° कां० ॥ २-३ संस्कृत भा० ॥ ४ ° त्सः, “अच्" (सिद्ध हे० ५-१-४९) इत्यनेन अच्प्रत्ययः, सोऽप्ये' कां० ॥ ५ 'नामेकैकस्मिन् प्रकारे वर्त्तते न शेषेषु । भङ्गाः कां० ॥ For Private & Personal Use Only 10 Jain Education International 20 अणुदिय उदिओ किं नु हु, संकप्पो उभयहा अदिडे उ । धरति ण वत्ति व सुरो, सो पुण नियमा चउण्हेको ।। ५८१६ ॥ 'उभयथा' उदयकालेऽस्तमनकाले वा अभ्र हिमादिभिः कारणैरदृष्टे आदित्ये सङ्कल्पो भवति, किमनुदित उदितो वा रविः ? अस्तमनकालेsपि — सूर्यो म्रियते न वा ? इति शङ्का भवति । 30 स पुनः सूर्यो नियमादनुदित उदितोऽस्तमितोऽनस्तमितो वा ? इति चतुर्णां विकल्पानामे 25 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy