________________
१५३२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत प्रकृते सूत्रम् ६-९
निर्विचिकित्सो नाम निःशङ्कमनुदितोऽतिक्रान्तो वा सूर्य इति मन्यते । एवं यो निःशकितेन चेतसा गृह्णाति स यद्यपि उदिते 'ध्रियमाणे वा' अनस्तमिते रवौ गृह्णाति तथाप्यविशुद्धपरिणामतया प्रायश्चित्ते लगति ॥ ५८०८ ।।।
एमेव य उदिउ त्ति व, धरइ ति व सोढमुवगतं जस्स ।
स विवजए विसुद्धो, विसुद्धपरिणामसंजुत्तो ॥ ५८०९॥ एवमेव यस्य 'सोढं' निःसन्दिग्धं चित्ते उपगतम्- यदुतादित्य उदितः 'ध्रियते वा' नाद्याप्यस्तमेति स यद्यपि 'विपर्यये' विपर्यासज्ञाने वर्तते तथापि विशुद्धपरिणाम इति कृत्वा 'विशुद्धः' न प्रायश्चित्ती ॥ ५८०९॥ अथ यदुक्तं सूत्रे-"अह पुण एवं जाणेज्जा-अणुग्गए
सूरिए अत्थमिए व" ति तत्रोद्गतमनस्तमितं वा रविं चेतसि कृत्वा गृहीतं पश्चात् पुनर्जातं यथा10 अनुद्गतोऽस्तमितो वा; कथं पुनस्तद् ज्ञातम् ? इत्याह
समि-चिंचिणिमादीणं, पत्ता पुप्फा य णलिणिमादीणं ।
उदय-ऽत्थमणं रविणो, कहिंति विगसंत-मउलिंता ॥ ५८१०॥ __ शमी-चिञ्चिणिकादीनां तरूणां पत्राणि नलिनीप्रभृतीनां च पुष्पाणि विकसन्ति सन्ति रवेरुदयं कथयन्ति । एतान्येव मुकुलयन्ति सन्ति रवेरस्तमयनं कथयन्ति ॥ ५८१० ॥ 15 कथं पुनरादित्य उदितोऽस्तमितो वा न दृश्यते ? इत्याह
अन्भ-हिम-वास-महिया-महागिरी-राहु-रेणु-रयछण्णो ।
मूढदिसस्स व बुद्धी, चंदे गेहे व तेमिरिए ॥ ५८११ ॥ अभ्रसंस्तृते गगने, हिमनिकरे वा पतति, वर्षेण वा महिकया वा पतन्त्या छादिते, महागिरिणा वा अन्तरिते, राहुणा वा सर्वग्रहणेनोदया-ऽस्तमनयोर्गृहीते रवौ, रेणुः-कटकगमनाधु20 खाता धूलिः रजः-औत्पादिकं ताभ्यां वा छन्न उदितोऽस्तमितो वा रविन ज्ञायते । दिग्मूढो
वा कश्चिद् अपरां दिशं पूर्व मन्यते, स नीचमादित्यं विलोक्य 'उद्गतमात्र आदित्यः' इतिबुद्ध्या भक्त-पानं गृहीत्वा वसतिं प्रविष्टो यावद् भुक्तस्तावदन्धकारं जातम् , ततो जानातिअस्तमितेऽहं भुक्त इति । अथवा 'गेहे' गृहाभ्यन्तरे कारणजाते दिवा सुप्तः, प्रदोषे चन्द्रे उदिते विबुद्धो विवरेण ज्योत्स्नां प्रविष्टां दृष्ट्वा चिन्तयति-एष आदित्यातपः प्रविष्टः; स च तैमिरिको 25 मन्दं मन्दं पश्यति ततो गृहिणा निमन्त्रितो भुक्तः । एवमादिभिः कारणैरनुदितमुदितं मन्येत उदितं वाऽनुदितम् , अस्तमितमप्यनस्तमितं अनस्तमितमप्यस्तमितम् ॥ ५८११ ॥ ततः
सुत्तं पडुच्च गहिते, णातुं इहरा उ सो ण गेण्हंतो।
जो पुर्ण गिण्हति णातुं, तस्सेगट्ठाणगं वड्ढे ॥ ५८१२ ॥ यद्युद्गतोऽनस्तमितो वा इतिबुद्ध्या सूत्रं प्रतीत्य "उग्गयवित्तीए अणत्थमियसंकप्पे” इति 30 सूत्रप्रामाण्येन गृहीतं पश्चाच्च ज्ञातम् 'अनुद्गतोऽस्तमितो वा रविः' ततो यद् मुखे यच्च पाणौ यच्च प्रतिग्रहे तत् सर्वमपि व्युत्सृजेत् । 'इतरथा' यद्यसौ पूर्वमेवानुदितमस्तमितं वा अज्ञास्यत् ततो नाग्रहीष्यत् । यः पुनरनुद्गतमस्तमितं वा ज्ञात्वा गृह्णाति गृहीत्वा वा भुतेऽन्येषां वा ददाति
१ रवी उद्या-ऽस्तमने न ज्ञायते । तथा रेणुः कां ॥ २ °ण भुंजइ णा ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org