________________
भाष्यगाथाः ५८०२-८] पञ्चम उद्देशः।
१५३१ वृद्धिरुक्ता, सम्प्रति यथा यथा द्रव्यपरिहाणिस्तथा तथा परिणामसंक्लेशवृद्धिमङ्गीकृत्य प्रायश्चितवृद्धिमभिधास्ये ॥ ५८०४ ॥ तामेवाह
'पंचूण तिभागद्धे, तिभाग सेसे य पंच मोत्तु संलेहं ।
तम्मि वि सो चेव गमो, णायं पुण पंचहि गतेहिं ।। ५८०५ ॥ 'तत्रापि' भावप्रायश्चित्ते यो द्रव्यनिष्पन्ने चारणागम उक्तः स एव द्रष्टव्यः । नवरम् - "पंचूण" त्ति पञ्चभिः कवलैरूनायां त्रिंशति शेषाः पञ्चविंशतिः कवला भवन्ति, ततः पञ्चसु कवलेषु गतेषु यदि ज्ञातम् 'अनुदितोऽस्तमितो वा रविः' एवं ज्ञात्वा शेषान् पञ्चविंशतिकवलान् भुञ्जानस्य मासलघु । “तिभाग" ति त्रिंशत् त्रिभागेन हीना विंशतिकवलास्तान् भुञ्जानस्य मासगुरु । "अद्धि" त्ति 'अर्द्ध' पञ्चदश कवलास्तान् भुञ्जानस्य चतुर्लघु । 'त्रिभागः' दश लम्बनास्तान् भुञ्जानस्य चतुर्गुरु । त्रिंशतः पञ्च लम्बनान् मुक्त्वा शेषाः पञ्चविंशतिरज्ञाते 10 भुक्ताः, ज्ञाते तु पञ्च शेषान् भुञानस्य षड्लघुकाः । संलेखनाशेष भुञ्जानस्य षड्गुरवः । इह प्रभूत-प्रभूततरकवलेषु अधिका-ऽधिकतरायामपि तृप्तौ सञ्जातायां शेषं स्तोकं स्तोकतरमपि ज्ञाते सति भुते तत्र परिणामः संक्लिष्टः संक्लिष्टतर इति कृत्वा बहु-बहुतरं प्रायश्चित्तम् ॥ ५८०५॥
एमेवऽभिक्खगहणे, भावे ततियम्मि भिक्खुणो मूलं ।।
एमेव गणा-ऽऽयरिए, सपया सपदं हसति इकं ॥ ५८०६॥ 15 एवमेवाभीक्ष्णग्रहणेऽपि भावनिष्पन्नं प्रायश्चित्तं भिक्षोर्द्रष्टव्यम् । नवरम्-द्वितीयवारं मासगुरुकादारब्धं छेदे तिष्ठति, तृतीयवारं चतुर्लघुकादारब्धं मूलं यावद् नेयम् । एवमेव गणिन आचार्यस्य च द्रष्टव्यम् । नवरम् -खपदात् खपदमेकमुभयोरपि इसति । तत्रोपाध्यायस्य प्रथमवारं मासगुरुकादारब्धं तृतीयवारायामनवस्थाप्ये, आचार्यस्य प्रथमवारं चतुर्लघुकादारब्धं तृतीयवारायां पाराश्चिके तिष्ठति ॥ ५८०६ ॥ इह पूर्वमुद्गतवृत्तिपदमनस्तमितसङ्कल्पपदं च 20 व्याख्यातं न शेषाणि संस्तृतादीनि अतस्तानि व्याचष्टे
संथडिओं संथरेंतो, संतयभोजी व होइ नायव्वो।
पज्जत्तं अलभंतो, असंथडी छिन्नभत्तो य ।। ५८०७॥ संस्तृतो नाम पर्याप्तं भक्त-पानं लभमानः संस्तरंति, अथवा यः ‘सन्ततभोजी' दिने दिने पर्याप्तमपर्याप्तं वा भुते स संस्तृतो ज्ञातव्यः । यस्तु पर्याप्तं भक्त-पानं न लभते चतुर्थादिना 25 छिन्नभक्तो वा सोऽसंस्तृतः ॥ ५८०७ ॥ निर्विचिकित्सपदं व्याख्याति
निस्संकमणुदितोऽतिच्छितो व सूरो त्ति गेण्हती जो उ ।
उदित धरेते वि हु सो, लग्गति अविसुद्धपरिणामो ॥ ५८०८ ॥ १पणहीण ति तामा० ॥ २ वनिष्पन्ने प्राय' का० ॥ ३°तः "पंचहिं गएहिं" ति विभक्तिव्यत्ययात् पञ्चसु को० ॥ ४ रब्धं छेदे, द्वितीयवारं चतुर्लघुकादारब्धं [मूले, तृतीयवारं चतुर्गुरुकादारब्धं] अनवस्थाप्ये; आचार्यस्य प्रथमवारं चतुर्लघुकादारब्धं मूले, द्वितीयवारं चतुर्गुरुकादारब्धमनवस्थाप्ये, तृतीयवारं षड्लघुकादारब्धं पारा का० ॥ ५°भोगी य हो' ताभा० ॥ ६ रन् निर्वहन आस्ते, अथ° का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org