________________
.१५३०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत प्रकृते सूत्रम् ६-९ यस्मादसौ सर्वां रात्रिमधिसह्य स्तोकं कालं न प्रतीक्षते ततः संक्लिष्टपरिणामः; इतरस्तु चिन्तयति-भूयान् मया कालः सोढव्य अतो भुङ्क्ते, एवमसौ लघुतरः । एवमादेशद्वयं कृत्वा स्थितपक्ष उच्यते--अनुद्गते सूर्य प्रतिसमयं विशुध्यमानः कालो भवतीति कृत्वाऽनुदितभोजी लघुतरः, 'इतरः पुनः' अस्तमितभोजी स तदानीं प्रतिसमयमविशुध्यमानः कालो भवतीति कृत्वा 5 गुरुतरः ॥ ५८०१ ॥ उक्तं कालनिष्पन्नं प्रायश्चित्तम् । अथ द्रव्य-भावनिष्पन्नमभिधित्सुराह
गेण्हण गहिए आलोयण, नमोकारे भुंजणे य संलेहे ।
. सुद्धो विगिंचमाणो, अविगिचण सोहि दव्व भावे य ॥ ५८०२ ॥ अनुदितो वाऽस्तमितो वा रविरेतेषु स्थानेषु ज्ञातो भवेत्-“गेण्हण" त्ति कृते उपयोगे पदभेदे कृते ज्ञातम् , यथा-नाद्याप्युद्गतोऽस्तमितो वा; तदा तत एव निवर्तमानः शुद्धः । 10 अथ ग्रहणं-गवेषणं कुर्वता ज्ञातं तदापि निवर्तमानः शुद्धः। अथ गृहीते ज्ञातं ततो यद् गृहीतं तत् परिष्ठापयन् शुद्धः । अथालोचयता ज्ञातं तदापि विविञ्चन् शुद्धः । अथ भोक्तुकामेन नमस्कारं भणता ज्ञातं ततोऽपि विविञ्चन् शुद्धः । भुञ्जानेन ज्ञातं शेषं परित्यजन् शुद्धः । अथ सर्वस्मिन् भुक्ते संलेखनाकल्पं कुर्वता ज्ञातं तथापि विविञ्चन् 'शुद्धः' न प्रायश्चित्ती । अथ न विविनक्ति ततो द्रव्यतो भावतश्च 'शोधिः' प्रायश्चित्तं भवति ॥ ५८०२ ।। 15 तत्र द्रव्यनिष्पन्नं तावदाह
संलेह पण तिभाए, अवड्ड दोभाए पंच मोत्तु भिक्खुस्स ।
मास चउ छ च लहु-गुरु, अभिक्खगहणे तिम् मूलं ॥ ५८०३ ॥ 'संलेखः' कवलत्रयप्रमाणः तमवशेषमनुद्गतेऽस्तमिते वा ज्ञातेऽपि भुङ्क्ते मासलघु । पञ्च कवलानवशिष्यमाणान् भुङ्क्ते मासगुरु । 'त्रिभागः' दशकवलास्तान् शेषान् भुङ्क्ते चतुर्लघु । 20 'अपार्थः' पञ्चदश कवलास्तानवशेषान् भुञ्जानस्य चतुर्गुरु । "दोभाग" त्ति द्वौ त्रिभागौ विंशतिः कवलास्तान् भुञ्जानस्य षड्लधु । "पंच मोत्तुं" ति त्रिंशतो मध्यात् पञ्च मुक्त्वा ये शेषाः पञ्चविंशतिः कवलास्तान् यदि भुते तदा षड्गुरु । एवं यथा यथा द्रव्यवृद्धिस्तथा तथा प्रायश्चित्तमपि वर्धते । अभीक्ष्णग्रहणं पुनः पुनरासेवां प्रतीत्य द्वितीयं वारमेवंभुञ्जानस्य मासगुरुकादारब्धं छेदे तिष्ठति । तृतीयं वारं चतुर्लघुकादारभ्य मूलं यावद् नेतव्यम् । एवं 25 • त्रिषु वारेषु मूलं यावत् प्रायश्चित्तं » भिक्षोरुक्तम् ॥ ५८०३ ॥
एमेव गणा-ऽऽयरिए, अणवटुप्पो य होति पारंची।
तम्मि वि सो चेव गमो, भावे पडिलोम वोच्छामि ॥ ५८०४ ॥ एवमेव गणिनः-उपाध्यायस्याचार्यस्य च चारणिकागमः स एव कर्तव्यः । नवरम्उपाध्यायस्य प्रथमवार मासगुरुकादारब्धं छेदे, द्वितीयवारं चतुर्लघुकादारब्धं मूले, तृतीयवारं 30 चतुर्गुरुकादारब्धं अनवस्थाप्ये तिष्ठति । एवमाचार्यस्यापि प्रथमवारं चतुर्लघुकादारब्धं मूले, द्वितीयवारं चतुर्गुरुकादारब्धमनवस्थाप्ये, तृतीयवारं षड्लघुकादारब्धं पाराश्चिके पर्यवस्यति ।
गतं द्रव्यनिष्पन्नम् । अथ भावे प्रतिलोमं प्रायश्चित्तं वक्ष्यामि-पूर्व द्रव्यवृद्धौ प्रायश्चित्त_dan Education Internatin एतदन्तर्गतः पाठः भा० नास्ति ॥
For Private & Personal Use Only
www.jainelibrary.org