SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५७९२-५८०१) पञ्चम उद्देशः । १५२९ तृतीया गवेषणायां विशुद्धा त्रिषु' शेषेषु सङ्कल्पादिष्वविशुद्धा ३ । चतुर्थलतायां चाखमितविषयत्वात् चत्वार्यपि पदान्यविशुद्धानि । 'अस्तमितमनःसङ्कल्पः' इति कृत्वा चतस्रोऽप्येता अविशुद्धाः ४ ॥ ५७९६ ॥ अथ विशुद्धलता आह अणत्थंगयसंकप्पे, पढमा एसी य गहण भोगी य । मण एसि गहण सुद्धा, बितिया अंतम्मि अविसुद्धा ॥ ५७९७ ॥ 5 मण एसणाए सुद्धा, ततिया गह-भोयणेसु अविसुद्धा। संकप्पें नवरि सुद्धा, तिसु वि असुद्धा उ अंतिमिया ॥ ५७९८ ॥ अस्तमितमनस्तमितं वा सूर्ये यो नियमादनस्तमितं मन्यते तस्य प्रथमा लता, अनस्तमितसङ्कल्पोऽनस्तमितगवेषी अनस्तमितग्राही अनस्तमितभोजी । अत एवाह-"पढमा एसी य गहणे भोगी य" ति प्रथमायामनस्तमितैषी अनस्तमित ग्रहण-भोजी चेति । द्वितीया तु लता 10 मनःसङ्कल्पैषण-ग्रहणपदेषु त्रिषु विशुद्धा अन्त्यपदे अविशुद्धा ॥ ५७९७ ॥ तृतीयलता मनःसङ्कल्पे एषणे च शुद्धा ग्रहणे भोजने चाविशुद्धा । 'अन्त्या नाम' चतुर्थी लता सा नवरं सङ्कल्पपदे विशुद्धा शेषेषु 'त्रिषु' गवेषण-ग्रहण-भोजनपदेषु अशुद्धा ॥५७९८॥ अत्राष्टाखप्यविशुद्धलतासु प्रायश्चित्तमाहपढमाए बितियाए, ततिय चउत्थीऍ नवम दसमाए। 15 एकारस बारसीए, लताएँ चउरो अणुग्धाता ॥ ५७९९ ॥ प्रथमायां द्वितीयस्यां तृतीयस्यां चतुर्थ्यां नवम्यां दशम्यामेकादश्यां द्वादश्यां चेत्यष्टासु लतासु भावस्याविशुद्धतया चत्वारोऽनुद्धाता मासाः ॥ ५७९९ ॥ पंचम छ स्सत्तमिया, अट्ठमिया तेर चोद्दसमिया य । पन्नरस सोलसा वि य, लतातों एया विसुद्धाओ ॥ ५८००॥ 20 पञ्चमी षष्ठी सप्तमी अष्टमी त्रयोदशी चतुर्दशी पञ्चदशी षोडशी चेत्यष्टौ लता विशुद्धाः प्रतिपत्तव्याः, सर्वत्रापि भावस्य विशुद्धत्वात् ॥ ५८०० ॥ अत्र शिष्यः पृच्छति दोण्ह वि कतरो गुरुओ, अणुग्गतऽत्थमियभुंजमाणाणं । आदेस दोण्णि काउँ, अणुग्गए लहु गुरू इयरे ॥ ५८०१॥ अनुद्गता-ऽस्तमितभुञ्जानयोर्द्वयोर्मध्ये कतरो गुरुतरः-महादोषः । सूरिराह-आदेशद्वयं 25 कर्तव्यम् । एके आचार्या ब्रुवते- अनुद्गतभोजिनोऽस्तमितभोजी गुरुतरः । कुतः ? इति चेद् उच्यते-स संक्लिष्टपरिणामः, दिवसतो भुक्त्वा भूयो रजन्याः प्रमुख एव भुझे, तदानीं चाविशुध्यमानः कालः; अनुदितभोजी पुनः सकलां रजनीमधिसह्य क्लान्तो मुझे, विशुध्यमानश्च तदानीं कालः, अतोऽसौ लघुतरः । अपरे भणन्ति-अस्तमितमोजिनोऽनुदितभोजी गुरुतरः, १°यणम्मि अवि तामा० ॥ २ °सु यथाक्रममाद्यासु चतसृषु अनुदितसङ्कल्पविषयासु अन्त्यासु चतसृषु अस्तमितसङ्कल्पगोचरासु भावस्याविशुद्धतया चत्वारोऽनुद्धाता मासाः प्रायश्चित्तं भवेयुः॥ ५७९९ ॥ पंचम को० ॥ ३°व्याः, आद्यासु चतसृषु उद्गतसङ्कल्पगोचरतया अन्त्यासु पुनरनस्तमितसङ्कल्पविषयतया सर्वत्रा का ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy