________________
१५२८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत ० प्रकृते सूत्रम् ६-९
भङ्ग इत्यर्थः । द्वितीयस्यां तु लतायां साधुस्त्रिषु पदेषु अविशुद्धः, तद्यथा - अनुदितसङ्कल्पोऽनुदितगवेषी अनुदितग्राही उद्गतभोजी, इयं हि लता सङ्कल्प - गवेषण- ग्रहणपदैस्त्रिभिरशुद्धा उद्गतभोजित्वरूपेणान्त्यपदेन तु शुद्धा ॥ ५७९१ ॥
तयाऍ दो असुद्धा, गहणे भोती य दोण्णि उ विसुद्धा । संकष्पम्म असुद्धा, तिसु सुद्धा अंतिमलया उ ॥ ५७९२ ।। तृतीयस्यां लतायां 'द्वे' सङ्करूप- गवेषणपदे अशुद्धे ग्रहण - भोजनपदे तु द्वे विशुद्धे । तद्यथा - अनुदितसङ्कल्पोऽनुदितगवेषी उदितग्राही उदितभोजी चेति । 'अन्त्यलता नाम' अनुदितसङ्कल्पस्य चरमा लता चतुर्थीत्यर्थः, सा सङ्कल्पपदे ऽविशुद्धा शेषैः त्रिभिः पदैः शुद्धा । तद्यथा--- अनुदितसङ्कल्प उदितगवेषी उदितग्राही उदितभोजी ।। ५७९२ ॥ एवमनुदितमनः10 सङ्कल्पस्य चतस्रो लता उक्ताः । अथोदितमनः सङ्कल्पस्य चतस्रो लता आहउग्गयमणसंकप्पे, अणुदितं गवेसी य गहण भोगी य ।
एमेव य बितियलता, सुद्धा आदिम्मि अंते य ॥ ५७९३ ॥ ततियलताएँ गवेसी, होइ असुद्धो उ सेसगा सुद्धा । सच्चविसुद्धा उभवे, चउत्थलतिया उदियचित्ते ॥ ५७९४ ॥
आदित्य उद्गतोऽनुगतो वा भवतु स नियमादुद्गतं मन्यत इत्युद्गतमनःसङ्कल्प उच्यते । तस्य प्रथमलता — उद्गतमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी १ । एवमेव च द्वितीयलताsपि द्रष्टव्या, नवरमादिपदे अन्त्यपदे च सा शुद्धा मध्यमे पदद्वयेऽशुद्धा २ ॥ ५७९३ ॥ तृतीयलतायामेकं गवेषणापदमशुद्धम् 'शेषाणि' सङ्कल्प - ग्रहण - भोजनपदानि त्रीण्यपि शुद्धानि | चतुर्थी तु लता सर्वेषु पदेषु शुद्धा ४ । एताश्चतस्रोऽप्युदितचित्तविषया लता भावस्य 20 विशुद्धतया शुद्धाः प्रतिपत्तव्याः । एवमस्तमिता ऽनस्तमितसङ्कल्पयोरप्यष्टौ लता भवन्ति ॥ ५७९४ ॥ तासामेव विभागमुपदर्शयति
5
15
25
अत्थंगयकप्पे, पढम धरेंतेसि गहण भोगी य ।
दोसते असुद्धा, वितिया मज्झे भवे सुद्धा ।। ५७९५ ॥ ततिया गवसणाए, होति विसुद्धा उ तीसु अविसुद्धा ।
रिवि होंतिपदा, चउत्थलतियाऍ अत्थमिते ।। ५७९६ ॥ इहास्तमितमनस्तमितं वा रविं यो नियमादस्तमितं मन्यते सोऽस्तङ्गतसङ्कल्पः, तस्य प्रथमा लता - अस्तमितसङ्कल्पोऽनस्तमितगवेषी अनस्तमितग्राही अनस्तमितभोजी १; अत एवाहप्रथमायां लतायां "धरेंतेसि" ति त्रियमाणे सूर्ये मक्त-पानस्य एषणं ग्रहणं भोजनं च 'अस्तङ्गतो रविः' इतिबुद्ध्या करोति । द्वितीया तु लता 'द्वयोः ' आद्यन्तपदयोरशुद्धा ' मध्ये ' गवेषणा30 ग्रहणपदयोः शुद्धा २ ॥ ५७९५ ॥
--
Jain Education International
१द्धः परं यत उद्गतभोगी अन्त्यपद्युक्तस्ततो निर्दोषः । तद्यथा कां० ॥ २ 'त एसी यताभा० ॥ ३ या उद्गतमनःसङ्कल्पगोचरा लता कां ॥ ४ चत्तारि पय असुद्धा,
चउत्थ° तामा• ॥
―ydig
For Private & Personal Use Only
www.jainelibrary.org