________________
१५२७
भाष्यगाथाः ५७८५-९१] पञ्चम उद्देशः। दोषभाग् भवति, यः पुनरुदितेऽपि रवौ 'नाद्याप्युदितः' इति चेतसा मन्यमानो भुङ्क्ते स सदोषः । एवमेवानस्तमितेऽपि मन्तव्यम् । किमुक्तं भवति ?-अस्तमितेऽपि रवौ 'नाद्याप्यस्ततः' इतिबुद्ध्या भुञ्जानोऽपि न प्रायश्चित्ती, अनस्तमितेऽपि च 'अस्तगतः' इत्यभिप्रायेण भुञ्जानः सदोषः । अथवा-"मणसंकप्पे अ होंति आदेस" ति अनुदितमनःसङ्कल्पा-ऽस्तमितमनःसकल्पयोः कतरो गुरुतरो लघुतरो वेति चिन्तायां द्वावादेशौ भवतः, तौ चोत्तरत्रामि-5 ध्यास्येते (गा० ५८०१)। अनुदितेऽस्तमिते वा कथं ग्रहणं सम्भवति ? इत्याह-"धाते पुण संखडी पुरतो" ति भ्रातं सुभिक्षमिति चैकोऽर्थः, तत्र सङ्घडी सम्भवति । सा च द्विधा-पुरःसङ्खडी पश्चात्सङ्खडी च । तत्र पूर्वाले या क्रियते सा पुरःसङ्खडी, अपराहे तु क्रियमाणा पश्चात्सङ्खडी। इह पुनरनुदिते रवौ पुरःसङ्खडी, पुनःशब्दग्रहणाद् अस्तमिते पश्चात्सङ्खडीति ॥ ५७८८ ॥
सूरे अणुग्गतम्मि, अणुदित उदिओ व होति संकप्पो। 10
एवं अत्यमियम्मि वि, एगतरे होति निस्संको ॥ ५७८९ ॥ सूर्येऽनुद्गतेऽनुदितसङ्कल्प उदितसङ्कल्पो वा भवेत् , उपलक्षणं चैतत्, उदितेऽप्यनुदित उदित इति वा सङ्कल्पो भवेत् । एवमेवाऽस्तमितेऽपि 'एकतरः' अनस्तमितोऽस्तमितो वा निःशङ्को मनःसङ्कल्पो भवति, उपलक्षणत्वाद अनस्तमितेऽप्यस्तमितसङ्कल्पोऽनस्तमितसङ्कल्पो वा भवेत् । इहानुदितोदितविषयाऽनस्तमिता-ऽस्तमितविषया च प्रत्येकं षोडशभङ्गी भवति । 15 तद्यथा- अनुदितमनःसङ्कल्पो अनुदितगवेषी अनुदितग्राही अनुदितभोजी, एवं चतुर्भिः पदैः सप्रतिपक्षैर्भङ्गरचनालक्षणेन षोडश भङ्गा रचयितव्याः। रचितेषु च भङ्गेषु यत्र द्वयोर्मध्यपदयोः परस्परं विरोधो दृश्यते मध्यपदेषु वा द्वयोरेकस्मिन् वा उदितो दृष्टो अन्त्यपदेषु पुनरनुदितस्ते भङ्गा विरुध्यमानत्वेन वर्जनीयाः शेषा ग्राह्याः । तथा अनस्तमितसङ्कल्पोऽनस्तमितगवेषी अनस्तमितग्राही अनस्तमितभोजी, एवमपि षोडश भङ्गाः कर्तव्याः । अत्रापि यत्र मध्यमपदेषु 20 परस्परं विरोधो दृश्यते यत्र वा मध्यमपदेषु द्वयोरेकस्मिन् वा अस्तमितो दृष्टोऽन्त्यपदे चानस्तमितस्ते भगा अघटमानकत्वेन वर्जनीयाः शेषा ग्राह्याः ॥ ५७८९ ॥ अनुदितोदिता-ऽस्तमिता-ऽनस्तमितेषु चतुर्वपि स्थानेषु यावन्तो भङ्गा घटमानकास्तत्प्रदर्शनार्थमाह
अणुदियमणसंकप्पे, गहण गवेसी य भुंजणे चेव । उग्गयऽणत्थमिए या, अत्थंपत्ते वि चत्तारि ॥ ५७९०॥
25 अनुदितमनःसङ्कल्पे गवेषण-ग्रहण-भोजनाख्यैस्त्रिभिः पदैर्येऽष्टौ भङ्गास्तेषु 'चत्वारः' प्रथमद्वितीय-चतुर्था-ऽष्टमभङ्गा घटन्ते, शेषाश्चत्वारोऽघटमानकाः । उद्गतमनःसङ्कल्पेऽप्येत एव चत्वारो घटन्ते न शेषाः । अनस्तमितसङ्कल्पे अस्तंप्राप्तसङ्करपेऽपि चैत एव चत्वारो ग्राह्याः, शेषास्तु तृतीय-पञ्चम-षष्ठ-सप्तमा असम्भवित्वाद् वर्जनीयाः ॥ ५७९० ॥ अर्थतेषामेव घटमानकभङ्गानां विभागतः प्ररूपणामाह
. 30 अणुदितमणसंकप्पे, गवेस-गह-भोयणम्मि पढमलता।
बितियाएँ तिसु असुद्धो, उग्गयभोई उ अंतिमओ ॥ ५७९१ ॥ अनुदितमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी १, एषा प्रथमा लता, प्रथमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org