________________
१५२६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्कृत ० प्रकृते सूत्रम् ६-९
भुङ्क्ते । विचिकित्सास मापन्नो नाम - 'किमुदितोऽनुदितो वा रविः ?' अथवा 'अस्तमितोऽनस्तमितो वा ?' इति सन्देहदोलायमानमानसः । एवं भुञ्जानस्यान्येषां वा ददानस्य चतुर्गुरुकम् ॥ तृतीयसूत्रे - " असंथडिए" ति 'असंस्तृतः ' अध्वप्रतिपन्नः क्षपको ग्लानो वा भण्यते, सः 'निर्विचिकित्सः' 'नियमादनुद्गतोऽस्तमितो वा रविः' इत्येवं निःसन्देहं जानानो यदि भुङ्क्ते 5 तदापि चतुर्गुरुकम् । शेषं प्रथमसूत्रवत् ॥
चतुर्थसूत्रे -- असंस्तृतो विचिकित्सासमापन्नश्च यो भुङ्क्ते स आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् । एष सूत्रचतुष्टयार्थः ॥ अथ निर्युक्तिविस्तरः'संथडमसंथडे या, निव्वितिगिच्छे तहेव वितिगिच्छे । काले दव्वे भावे, पच्छित्ते मग्गणा होइ ।। ५७८५ ।।
10 प्रथमं सूत्रं संस्कृते निर्विचिकित्से, द्वितीयं संस्तृते विचिकित्सासमापन्ने, तृतीयमसंस्तृते निर्विचिकित्से, चतुर्थमसंस्तृते विचिकित्सासमापन्ने मन्तव्यम् । तत्र प्रथमसूत्रे तावत् त्रिधा प्रायश्चित्तमार्गणा भवति — कालतो द्रव्यतो भावतश्च ॥ ५७८५ ।। तत्र कालतस्तावदाहअणुग्गय मणसंकप्पे, गवेसणे गहण भुंजणे गुरुगा ।
15
अह संकियमि भुंजति, दोहि वि लहु उग्गते सुद्धो ॥ ५७८६ ॥ अनुगतः - नाद्याप्युद्गतो रविरित्येवं निःशङ्कितेन मनःसङ्कल्पेन यो भक्त -पानस्य गवेषणं ग्रहणं भोजनं च करोति तस्य चतुर्गुरवः 'द्वाभ्यामपि तपः - कालाभ्यां गुरुकाः । अथ शङ्कितेन मनःसङ्कल्पेन भुङ्क्ते ततस्त एव चतुर्गुरुका द्वाभ्यामपि लघवः । उद्गतः सूर्य इति निःसन्दिग्धे मनःसङ्कल्पे भुञ्जानः शुद्धः ॥ ५७८६ ॥
--
अत्थंगयसंकप्पे, गवेसणे गहणे भुंजणे गुरुगा ।
अह संकियम्मि भुंजइ, दोहि वि लहुऽणत्थमिऍ सुद्धो ॥ ५७८७ ॥ 'अस्तङ्गतो रविः' इत्येवंविधेन सङ्कल्पेन गवेषणे ग्रहणे भोजने च चतुर्गुरुकाः तपसा कालेन च गुरवः । अथ 'अस्तङ्गतोऽनस्तङ्गतो वा' इति शङ्किते भुङ्क्ते ततश्चतुर्गुरुकाः 'द्वाभ्यामपि' तपः- कालाभ्यां लघवः । यः पुनरनस्तमितो रविरित्येवं निःसन्दिग्धेन चेतसा भुङ्क्ते स शुद्धः || ५७८७ || अथ "उम्गयवित्ती" इत्यादिपदव्याख्यानमाहउग्गयवित्तीमुत्ती, मणसंकप्पे य होंति आएसा ।
25
20
-
"
मेव अत्थमि, धाए पुण संखडी पुरतो ।। ५७८८ ॥ उगते व वृतिः - वर्तनं यस्य स उद्गतवृत्तिः । पाठान्तरेण 'उद्गतमूर्तिः' इति वा, उद्गते सूर्ये मूर्तिः - शरीरं वृत्तिनिमित्तं बहिः सप्रचारं यस्य स उद्धतमूर्तिः । मैनः सङ्कल्पे चामी आदेशा भवन्ति - अनुदितमप्यादित्यं यो मनःसङ्कल्पेन उदितं मन्यते स भुञ्जानोऽपि न
Jain Education International
१ " असंखडिए” भा० कां० ॥ २ संघडमसंघडे भा० ॥ ३ °श्चित्ते मार्गणा भवति, तद्यथा - काले द्रव्ये भावे च, कालतो द्रव्यतो भावतश्चेत्यर्थः ॥ ५७८५ कां० ॥ ४ 'शङ्किते' 'किमुद्गतोऽनुगतो वा रविः ?' इति शङ्कासमापन्ने मनःसङ्कल्पे भु° कां० ॥ ५ए चिह्नान्तर्गतः पाठः भा० कां० एव वर्तते ॥
For Private & Personal Use Only
www.jainelibrary.org