________________
१५३६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत प्रकृते सूत्रम् ६-९ आचार्यस्य पञ्चदशरात्रिन्दिवादिकं पाराञ्चिकान्तम् । भावे एतदेव प्रतिलोमं प्रायश्चित्तम् ।
शिष्यः पृच्छति-अध्वासंस्तृतो मध्ये क्षिप्रमेव स्वपदं प्रापितः प्रवेशे उत्तरणे च चिरेण तदेतत् कथम् ? अत्रोच्यते-अध्वनः प्रवेशे भयमुत्पद्यते 'कथमध्वानं निस्तरिष्यामि ?' उत्तरणेऽपि बुभुक्षा-तृषादिभिरत्यन्तं क्लान्तः, अत एतौ चिरेण स्वपदं प्रापितौ, अध्वमध्ये पुनर्जितभयो 5 नातिक्लान्तश्च अतः शीघ्रं खपदं प्रापितः । अत्रैकैकस्मिन् पदे आज्ञादयो रात्रिभोजनदोषाश्च । अगीतार्थस्य चैतन्मन्तव्यम् , न गीतार्थस्य ॥ ५८२२ ॥ कुतः ? इति चेद् उच्यते
उग्गयमणुग्गते वा, गीतत्थो कारणे णऽतिकमति ।
दूताऽऽहिंड विहारी, ते वि य होंती सपडिवक्खा ॥ ५८२३ ॥ गीतार्थः अध्वप्रवेशादौ कारणे उत्पन्ने उद्गतेऽनुद्गते वा सूर्ये यतनयाऽरक्तोऽद्विष्टो भुञ्जानो 10 भगवतामाज्ञां धर्म वा नातिकामति । ते चाध्वप्रतिपन्नास्त्रि विधाः-द्रवन्त आहिण्डका विहारि
णश्च । तत्र द्रवन्तः-ग्रामानुग्रामं गच्छन्तः, आहिण्डकाः-सततपरिभ्रमणशीलाः, विहारिणःमासं मासेन विहरन्तः । तेऽपि प्रत्येकं सप्रतिपक्षाः ॥ ५८२३ ॥ तद्यथा
दूइज्जंता दुविधा, णिक्कारणिगा तहेव कारणिगा।
असिवादी कारणिता, चक्के थूभाइता इतरे ॥ ५८२४ ॥ 15
उवदेस अणुवदेसा, दुविहा आहिंडगा मुणेयव्वा ।
विहरंता वि य दुविधा, गच्छगता निग्गता चेव ॥ ५८२५ ॥ द्रवन्तो द्विविधाः-निष्कारणिकाः कारणिकाश्च । तत्राशिवा-ऽवमौदर्य-राजद्विष्टादिभिः कारणैः, उपधेर्लेपस्य वा निमित्तं, गच्छस्य वा बहुगुणतरमिति कृत्वा, आचार्यादीनां वा आगाढे
कारणे ये द्रवन्ति ते कारणिकाः । ये पुनरुत्तरापथे धर्मचक्रं मथुरायां देवनिर्मितस्तूप 20 आदिशब्दात् कोशलायां जीवन्तस्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थ
द्रवन्तो निष्कारणिकाः ॥ ५८२४ ॥ ___ आहिण्डका अपि द्विधा-उपदेशाहिण्डका अनुपदेशाहिण्डकाश्च । तत्र ये सूत्रा-ऽर्थी गृहीत्वा भविष्यदाचार्या गुरूणामुपदेशेन विषया-ऽऽचार-भाषोपलम्भनिमित्तमाहिण्डन्ते ते उपदेशाहिण्डकाः, ये तु कौतुकेन देशदर्शनं कुर्वन्ति तेऽनुपदेशाहिण्डकाः । विहरन्तोऽपि 25 द्विविधाः-गच्छगता गच्छनिर्गताश्च । तत्र 'गच्छगताः' गच्छवासिनः ऋतुबद्धे मासं मासेन विहरन्ति । गच्छनिर्गता द्विविधाः-विधिनिर्गता अविधिनिर्गताश्च । विधिनिर्गताश्चतुर्धाजिनकल्पिकाः प्रतिमाप्रतिपन्ना यथालन्दिकाः शुद्धपारिहारिकाश्चेति । अविधिनिर्गताः सारणादिभिस्त्याजिता एकाकीभूताः ॥ ५८२५ ॥
एतेषां भेदानामिमेऽनुदिता-ऽस्तमितयोः प्रायश्चित्ते लगन्ति30
निकारणिगाऽणुवदेसिगा य लग्गंतऽणुदिय अस्थमिते ।
गच्छा विणिग्गता वि हु, लग्गे जति ते करेजेवं ॥ ५८२६ ॥ १ संस्कृतो भा० ॥ २ वा, उपलक्षणत्वाद् अस्तमितेऽनस्तमिते वा सूर्ये कां० ॥ ३ °गा समासेणं । विह' तामा० ॥ ४ °वन्ति ते इतरे मन्तव्याः। इतरे नाम-निष्का कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org