________________
भाष्यगाथाः ५८२३-२८ ]
पञ्चम उद्देशः ।
१५३७
निष्कारणिका द्रवन्तो अनुपदेशा हिण्डका अविधिनिर्गताश्चानुदितेऽस्तमिते वा यदि गृह्णन्ति भुञ्जते वा ततः पूर्वोक्तप्रायश्चित्ते लगन्ति । ये तु कारणिका द्रवन्त उपदेशा हिण्डका गच्छगताश्च ते कारणे यतनया गृह्णाना भुञ्जानाश्च शुद्धाः । ये तु गच्छनिर्गता जिनकल्पिकादयस्तेऽपि यद्येवमनुदितेऽस्तमिते वा ग्रहणं कुर्युस्ततो लगन्ति परं ते नियमात् तदानीं न गृह्णन्ति, त्रिकालविषयज्ञानसम्पन्नत्वात् ॥ ५८२६ ॥
5
अहवा तेसिं ततियं, अप्पत्तो अणुदितो भवे सूरो । पत्तो तु पच्छिमं पोरिसिं च अत्थंगतो होति ।। ५८२७ ॥ अथवाशब्दः प्रकारान्तरवाची । 'तेषां' जिनकल्पिकादीनां तृतीयां पौरुषीमप्राप्तः सूर्योऽनुदितो भण्यते, पश्चिमां च पौरुषीं प्राप्तोऽस्तङ्गत उच्यते । अत एव भक्तं पन्थाश्च तेषां तृतीयपौरुष्यामेव भवति नान्यथा ॥ ५८२७ ॥
गतमसंस्तृतनिर्विचिकित्ससूत्रम् । अथासंस्तृत विचिकित्ससूत्रं व्याचष्टे - वितिगिच्छ असंथड, सत्थो उ पहावितो भवे तुरियं । अणुकंपयाऍ कोई, भत्तेण निमंतणं कुञ्जा ॥ ५८२८ ॥
अभ्रसंस्तृत-हिमानी सम्पातादिभिरदृश्यमाने सूर्ये विचिकित्सा भवति । ते च साधवः सार्थेन अध्वानं प्रतिपन्नाः, अन्तरा चाऽभिमुखोऽपरः सार्थ आगतः, द्वावप्येकस्थाने आवासितौ, 15 अभिमुखागन्तुकसार्थिकश्च कोऽप्यनुकम्पया साधूनां भक्तेन निमन्त्रणं कुर्यात्, यस्मिंश्च सार्थे साधवः स चलितः अतः सूर्योदयवेलायामुदितोऽनुदित इति शङ्कया गृह्णीयुः । इहापि त्रिवि - asiस्तृते तथैवाष्टौ लताः । नवरम् — असंस्तृते निर्विचिकित्से तपःप्रायश्चित्तान्युभयगुरुकाणि, असंस्तृते विचिकित्से पुनरुभयलघूनि शेषं सर्वमपि प्राग्वत् ॥ ५८२८ ॥
॥ संस्तृत-निर्विचिकित्सप्रकृतं समाप्तम् ॥
उद्वार प्र कृ त म्
इह खलु निग्गंथस्स वा निग्गंथीए वा रातो वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेजा, तं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ । तं उग्गिलित्ता पच्चोगिलमाणे राई भोयणपडि सेवपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुघाइयं १० ॥
-
सूत्रम् -
१-२ संस्कृत भा० ॥ ३ व्याख्याति कां० ॥ ४ 'संखड डे० । 'संघड भा० ॥ ५ संस्कृत भा० ॥ ६-७ संस्कृते भा० ॥ ८ असंविचि कां • विना ॥
For Private & Personal Use Only
10
Jain Education International
20
25
www.jainelibrary.org