________________
.१५३८
अस्य सम्बन्धमाह
15
निसिभोयणं तु पगतं, असंधरंतो बहुं च भोत्तूणं । उग्गाल मुग्गिलिजा, कालपमाणा व दव्वं तु ॥ ५८२९ ।। निशिभोजनं पूर्वसूत्रे प्रकृतम्, इहापि तदेवाभिधीयते । यद्वाऽसंस्तरन् 'बहु' प्रभूतं भुक्तवा छ रजन्यामुद्गारमागतमुद्गिलेत् तन्निषेधार्थमिदं सूत्रम् । अथवा कालप्रमाणमनन्तरसूत्रे उक्तम्, इह तु कालप्रमाणादनन्तरं द्रव्यप्रमाणमुच्यते ॥ ५८२९ ॥
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उद्द्वारप्रकृते सूत्रम् १०
अनेन सम्बन्धेनायातस्यास्य व्याख्या – 'इह ' अस्मिन् मौनीन्द्रे प्रवचने ग्रामादौ वा वर्तमानस्य 'खल:' वाक्यालङ्कारे निर्ग्रन्थस्य वा निर्ग्रन्थया वा रात्रौ वा विकाले वा सह पानेन सपानः सह भोजनेन सभोजन उद्गार आगच्छेत् । किमुक्तं भवति ? – सिक्थविरहितमेकं 10 पानीयमुद्गारेण सहागच्छति, कूरसिक्थं वा केवलमागच्छति, कदाचिदुभयं वा । 'तम्' उद्गारं 'विविञ्चन् वा' सकृत् परित्यजन् 'विशोधयन् वा' बहुशः परित्यजन् नो आज्ञामतिक्रामति । तमुद्गीर्य 'प्रत्यवगिलन्' भूयोऽप्याखादयन् आपद्यते चातुर्मासिकं परिहारस्थानं अनुद्धातिकम् । एष सूत्रार्थः ॥ सम्प्रति निर्युक्तिविस्तरः
--
उद्दद्दरे वमित्ता, आतिअणे पणगवुड्डि जा तीसा ।
चत्तारि छ च लहु-गुरु, छेदो मूलं च भिक्खुस्स || ५८३० ॥ 'ऊर्द्धदरे' सुभिक्षे पर्याप्तमशनादिकं भुक्त्वा वमित्वा च यो विशिष्टभक्तलोभेन भूयः प्रत्यापित्रति ततो यदि दिवसस्तत एकं लम्बनमादौ कृत्वा यावत् पञ्च लम्बनास्तावद् आपिबतश्चत्वारो लघवः । ततः पञ्चकवृद्धिस्त्रिशतं यावत् कर्त्तव्या, तद्यथा - षट् प्रभृति यावद् दश लम्बना एतेषु चतुर्गुरवः, एकादशादिषु पञ्चदशान्तेषु षड्लघवः, षोडशादिषु विंशत्यन्तेषु षड्गु20 रवः, एकविंशत्यादिषु पञ्चविंशत्यन्तेषु च्छेदः, षड्विंशत्यादिषु त्रिंशदन्तेषु लम्यनेषु प्रत्यवगिल्यमानेषु मूलम् । एवं भिक्षोरुक्तम् || ५८३० ||
गणि आयरिए सपदं, एगग्गहणे वि गुरुग आणादी । मिच्छत्तऽमच्चबडुए, विराहणा तस्स वऽण्णस्स ।। ५८३१ ॥
गणी - उपाध्यायस्तस्य चतुर्गुरुकादारब्धं स्वपदमनवस्थाप्यं यावद् नेयम् । आचार्यस्य षड्25 लघुकादारब्धं स्वपदं पाराञ्चिकं यावद् द्रष्टव्यम् । एवं दिवसत उक्तम् । रात्रौ यद्येकमपि सिक्थं 'गृह्णाति' प्रत्यादत्ते ततश्चतुर्गुरु, आज्ञादयश्च दोषाः । मिथ्यात्वं चासावन्येषां जनयति-यथा वादिनस्तथा कारिणो न भवन्त्यमी इति । राजा वा तं ज्ञात्वा भिक्षादीनां प्रतिषेधं कुर्यात्, ' मा वा कोऽप्यमीषां मध्ये प्रत्राजीत्' इति वारयेत्, असारं च प्रवचनं मन्येत, अस्थिसरजस्का अप्यमीभिर्वान्तमापिबद्भिर्जिता इति' । ' तस्य वा' वान्ताशिनः 'अन्यस्य वा' तं पश्यतो 30 विराधना भवति । अत्रामात्यबटुकदृष्टान्तः
एगो रंकबडुतो संखडीए मज्जियाकूरं अइप्पमाणं जिमितो । निग्गयस्स य रायमग्गमो - गाढस्स हिययमुच्छलं । अमच्चपासायस्स हिट्ठा वमिङमारद्धो, अमचेण य वायायणट्टिएण दिट्ठो ।
१ एतदनन्तरं ग्रन्थाग्रम् - ६००० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org