________________
10
भाष्यगाथाः ५८२९-३६] पञ्चम उद्देशः ।
१५३९ सो य वमित्ता तमाहारमविणटुं पासित्ता लोभेण भुंजिउमारद्धो । तं दट्टण अमच्चस्स अंगाणि उद्धसियाई, उड्डे च जातं । अमच्चो दिणे दिणे जेमणवेलाए समुद्दिसंतो संभरेता उड्ढे करेइ । एवं तस्स वग्गुली वाही जातो, तओ मओ । सो वि धिज्जाईओ एवमेव विणट्ठो । जम्हा एते दोसा तम्हा पमाणपत्तं भोत्तव्यं ॥
॥५८३१ ॥ एवं ताव दिवसतो, रातो सित्थे वि चउगुरू होति ।
उद्दद्दरगहणा पुण, अववाते कप्पए ओमे ॥ ५८३२ ॥ एवं तावत् कवलपञ्चकमादौ कृत्वा पञ्चकवृद्ध्या चतुर्लघुकादिकं प्रायश्चित्तं दिवसत उक्तम् । रात्रावेकसिक्थस्यापि ग्रहणे चतुर्गुरवो भवन्ति । यच्च नियुक्तिगाथायामूर्द्धदरग्रहणं कृतं तदेवं ज्ञापयति-अपवादपदे अवमे प्रत्यवगिलनमपि कल्पते ।। ५८३२ ।। अत्र शिष्यः प्राह
रातो व दिवसतो वा, उग्गाले कत्थ संभवो होजा।।
गिरिजण्णसंखडीए, अट्ठाहिय तोसलीए वा ।। ५८३३ ॥ रात्रौ वा दिवसतो वा कुत्रोद्गारस्य सम्भवो भवेत् ? । सूरिराह-गिरियज्ञादिषु सङ्खडीषु तोसलिविषये वा अष्टाहिकादिमहिमासु प्रमाणातिरिक्तं भुक्तानामुद्गारः सम्भवति ॥५८३३।। तत्र प्रायश्चित्तमभिधित्सुः प्रस्तावनार्थं ताव दिदमाहअद्धाणे वत्थव्वा, पत्तमपत्ता य जोअण दुगे य ।
15 पत्ता य संखडि जे, जतणमजतणाएँ ते दुविहा ॥ ५८३४ ॥ ते सङ्खडीभोजिनः साधवो द्विविधाः--अध्वप्रतिपन्ना वास्तव्याश्च । तत्र ये वास्तव्यास्ते द्विविधाः-सङ्खड्याः प्रेक्षिणोऽप्रेक्षिणश्च । अध्वप्रतिपन्ना अपि द्विधा-तत्रैव गन्तुकामा अन्यत्र वा गन्तुकामाः । येऽन्यत्र गन्तुकामास्ते द्विधा–प्राप्तभूमिका अप्राप्त भूमिकाश्च । प्राप्तभूमिका नाम-ये सङ्खडीग्रामस्य पार्श्वतो गन्तुकामाः सङ्खडीमभिधार्य अर्धयोजनादागच्छन्ति । अप्राप्त-20 भूमिका नाम-ये योजनाद् योजनद्विकाद् उपलक्षणत्वाद् यावद् द्वादशयोजनेभ्यः सङ्खडी. निमित्तमागताः । ये तत्रैव गन्तुकामाः सङ्खडीग्रामे प्राप्तास्ते 'द्विविधाः' द्विप्रकाराः—यतनाप्राप्ता अयतनाप्राप्ताश्च । ये पदभेदमकुर्वन्तः सूत्रार्थपौरुष्यो विदधाना आगतास्ते यतनाप्राप्ताः । ये तु सङ्खडीं श्रुत्वा सूत्रार्थो हापयन्त उत्सुकीभूता आगतास्ते अयतनाप्राप्ताः ॥ ५८३४ ॥
वत्थव्य जतणपत्ता, एगगमा दो वि हति णेयव्या ।
अजयण वत्थव्धा वि य, संखडिपेही उ एक्कगमा ॥ ५८३५॥ तत्र ये वास्तव्याः सङ्खड्यपलोकिनो ये च तत्रैव गन्तुकामा यतनाप्राप्ताः एते द्वयेऽपि प्रायश्चित्त चारणिकायामेकगमा भवन्ति ज्ञातव्याः । ये तु तत्रैव गन्तुकामा अयतनाप्राप्ताः ये च वास्तव्याः सङ्खडीप्रलोकिनः एते द्वयेऽपि चारणिकायामेकगमा भवन्ति ॥ ५८३५ ॥ "पत्ता य सङ्खडिं जे" (गा० ५८३४ ) इति पदं व्याख्याति
30 तत्थेव गंतुकामा, बोलेउमणा व तं उपरिएणं ।
पदभेद अजयणाए, पडिच्छ उव्यत्त सुतभंगे ।। ५८३६ ॥ यत्र ग्रामे सङ्खडिस्तत्रैव ये गन्तुकामाः ये वा तस्य ग्रामस्योपरि वोलयितुमनसस्ते यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org