________________
१५४० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उद्गारप्रकृते सूत्रम् १० खभावगतेः पदभेदं कुर्वन्ति, एकट्यादीनि वा दिनानि प्रतीक्षन्ते, अवेलायामुद्वर्तन्ते वा, सूत्रार्थपौरुषीभङ्गेन वा प्राप्ता भवन्ति तदाऽयतनाप्राप्ताः । इतरथा यतनाप्राप्ताः ॥ ५८३६ ॥ प्राप्तभूमिकान् अप्राप्तभूमिकांश्च व्याख्याति
संखडिमभिधारेता, दुगाउया पत्तभूमिगा होति ।
जोयणमाई अप्पत्तभूमिया बारस उ जाव ॥ ५८३७ ॥ ___ सङ्खडिग्रामपार्श्वतो ये गन्तुकामास्ते यदि सङ्खडीमभिधार्य गव्यूतद्वयादागच्छन्ति तदा प्राप्तभूमिका भवन्ति । ये पुनर्योजनाद् योजनद्वयाद् यावद् द्वादशयोजनेभ्य आगच्छन्ति ते सेर्वेऽप्राप्तभूमिकाः ॥ ५८३७ ॥
खेत्तंतों खेत्तबहिया, अप्पत्ता बाहि जोयण दुगे य । 10
चत्तारि अट्ठ बारसऽजग्ग सुव विगिंचणाऽऽदियणा ।। ५८३८॥ सङ्खडीं श्रुत्वा क्षेत्रान्तः क्षेत्रवहिर्वा आगच्छेयुः । ये क्षेत्रान्तः सार्धक्रोशद्वयादागच्छन्ति ते प्राप्तभूमिकाः । ये पुनः क्षेत्रबहिः योजनाद् योजनद्वयात् चतुर्योजनादष्टयोजनाद् यावद् द्वादशयोजनादागच्छन्ति तेऽप्राप्तभूमिकाः । एते सर्वेऽपि सङ्खड्यामतिमात्रं भुक्त्वा प्रदोषे
A"जग्ग" ति अकारप्रश्लेषाद् न जाग्रति, "सुव" ति वैरात्रिककालवेलायामपि 'खपन्ति' 15 नोत्तिष्ठन्ते, "विगिंचण" त्ति उद्गारमुद्गीर्य परित्यजन्ति, “आइयण" ति तमेव 'आपिबन्ति' प्रत्यवगिलन्ति ॥ ५८३८ ॥ एतेषु चतुर्षु पदेषु इयमारोपणा
वत्थव्य जयणपत्ता, सुद्धा पणगं च भिण्णमासो य ।
तव-कालेहि विसिट्ठा, अजतणमादी विउ विसिट्ठा ॥ ५८३९ ॥ सङ्खड्यप्रलोकिनो वास्तव्या यतनया प्राप्ताश्चागन्तुकाः सङ्खड्यां यावद् द्रवं भुक्त्वा प्रादो20 षिकी पौरुषीं न कुर्वन्ति 'मा न जरिष्यति' इति कृत्वा तत आचार्यानापृच्छ्य वपन्तः शुद्धाः । त एव यदि वैरात्रिकं खाध्यायं न कुर्वन्ति तदा पञ्चरात्रिन्दिवानि तपोलघूनि कालगुरूणि । अथोद्गार आगतस्तं च यदि विविञ्चन्ति ततो भिन्नमासस्तपोगुरुः काललघुः । अथ तमुद्गारमापिबन्ति ततो मासलघु तपसा कालेन च गुरुकम् । येऽयतनाप्राप्ता ये च वास्तव्याः सङ्खडिप्रलोकिनः एते द्वयेऽपि सङ्खड्यां भुक्त्वा प्रादोषिकं स्वाध्यायं न कुर्वन्ति मासलघु द्वाभ्यामपि 25 लघुकम् । वैरात्रिकं खाध्यायं न कुर्वन्ति मासलघु कालगुरुकम् । उद्गारमागतं परित्यजन्ति मासलघु तपोगुरुकम् । उद्गारं प्रत्यवगिलन्ति मासगुरु तपसा कालेन च गुरुकम् ॥५८३९॥ अत एवाह
तिसु लहुओ गुरु एगो, तीसु य गुरुओ उ चउलहू अंते । १ धार्य द्विगव्यूतादाग भा० कां० ॥ २ सर्वेऽपि अप्रा भा० ॥ ३ इदमेव सविशेषमाह इत्यवतरणं कां०॥४N एतच्चिह्नान्तर्गतः पाठः कां. एव वर्तते ॥ ५°म् । एवं तपः-कालाभ्यां विशिष्टानि पञ्चकादीनि प्रायश्चित्तानि यथाक्रमं मन्तव्यानि । “अजयणमाई विउ" त्ति येऽयत कां० ॥ ६°म् । अत एवाह-"विसिट्ट" ति 'एते' मासलघु-मासगुरुलक्षणे प्रायश्चित्ते तपः-कालाभ्यां विशिष्टे कर्तव्ये ॥ ५८३९ ॥ अनन्तरोक्तमेव प्रायश्चित्तं समर्थयन्नभिनवं च प्रतिपादयन्नाह-तिसु कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org