Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 296
________________ भाष्यगाथाः ५९०८-१६] पञ्चम उद्देशः । १५५९ थोवं बहुम्मि पडियं, उसिणे सीतोदगं ण उज्झंती । हंदि हु जाव विगिंचति, भावेजति ताव तं तेणं ॥ ५९१२ ॥ बहुके पूर्वगृहीते स्तोकं पतितमित्यत्र यदि उष्णे बहुनि शीतोदकं स्तोकं पतितं तदा नोज्झन्ति । कुतः ? इत्याह-'हन्दि' इत्युपप्रदर्शने, यावद् विविनक्ति तावत् 'तत्' स्तोकं शीतोदकं तेन' बहुकेनोष्णेन 'भाव्यते' परिणतं क्रियते, ततः परिभोक्तव्यं तदिति भावः ॥५९१२।। । ___जं पुण दुहतो उसिणं, सममतिरेगं व तक्खणा चेव । मज्झिल्लभंगएसुं, चिरं पि चिट्टे बहुं छूढं ॥ ५९१३ ॥ यत् पुनर्द्विधाऽप्युष्णम्-उष्णे उष्णं पतितमित्यर्थः तत् परिणामतः परस्परं 'सम' तुल्यं भवेद् ‘अतिरिक्तं वा' द्वयोरेकतरमधिकतरं तत्रापि तत्क्षणादेव सचित्तभावो नापगच्छतीति' वाक्यशेषः । यौ तु मध्यमौ द्वौ भङ्गौ 'उष्णे शीतं पतितम् , शीते वा उष्णं पतितम्' 10 इतिलक्षणौ तयोः स्तोके बहु प्रक्षिप्तं चिरमपि सचित्तं तिष्ठेत् , ततस्तदपि क्षिप्रं चिरेण वा विवेचनीयम् ॥ ५९१३ ॥ अथोदकस्यैव परिणमनलक्षणमाह-- वण्ण-रस-गंध-फासा, जह दव्वे जम्मि उक्कडा होति । [उ.नि.२०२] तह तह चिरं न चिट्ठइ, असुमेसु सुभेसु कालेणं ॥ ५९१४ ॥ यस्मिन् द्रव्ये यथा यथा वर्ण-गन्ध-रस-स्पर्शा उत्कटा उत्कटतरा भवन्ति तथा तथा तेन 15 द्रव्येण सह मिश्रितमुदकं चिरं न तिष्ठति, क्षिप्रं क्षिप्रतरं परिणमतीति भावः । किमविशेषेण ? न इत्याह-येऽशुभा वर्णादय उत्कटास्तेष्वेव क्षिप्रं परिणमति, ये तु शुभा वर्णादयस्तेषूत्कटेषु कालेन परिणमति, चिरादित्यर्थः ॥ ५९१४ ॥ अत्रेदं निदर्शनम् जो चंदणे कडुरसो, संसट्ठजले य दूसणा जा तु । सा खलु दगस्स सत्थं, फासो उ उवग्गहं कुणति ॥ ५९१५ ॥ 20 ___ इह तण्डुलोदकं चन्दनेन कापि मिश्रितं तत्रै च चन्दनस्य यः कटुको रसः स तण्डुलोदकस्य शस्त्रं परं यस्तदीयः स्पर्शः शीतलः स जलस्योपग्रहं करोतीति कृत्वा चिरेण तत् परिणमति । एवं संसृष्टजलस्यापि या 'दूषणा' अम्लरसता सा उदकस्य शस्त्रं स्पर्शस्तु शीतलत्वादुपग्रहकारी अतश्चिरेण परिणमति ॥ ५९१५ ॥ घयकिट्ट-विस्सगंधा, दगसत्थं मधुर-सीतलं ण घतं । कालंतरमुप्पण्णा, अंबिलया चाउलोदस्स ॥ ५९१६ ॥ घृतस्य सबन्धी यः किट्टो यश्च विस्रो गन्धः तावुदकस्य शस्त्रम् , यत् तु रसेन मधुरं स्पर्शेन च शीतलं घृतं तद् उपग्रहं करोतीति शस्त्रं न भवति, अतश्चिरात् परिणमति । १ति अतः परिष्ठापनीयं तदिति वाक्य कां० । “दुहतो णाम पुव्वगहितं पि उसिणं जंपि पडितं तं पि उसिणं, तं परिणामतो तुलं अतिरेगं वा एगतरं तस्मिन्नेव क्षणे न सचित्तभावो व्यपगच्छति इति वाक्यशेषः, ताधे सिग्धं चेव विगिचिजति ।" इति चूर्णी विशेषचूर्णौ च ॥ २ द्रव्ये “जह" त्ति उत्तरत्र "तह तह" त्ति वीप्साया निर्देशादिहापि वीप्सा द्रष्टव्या, ततोऽयमर्थः-यथा यथा कां० ॥ ३ °त्र 'चन्दने' षष्ठीसप्तम्योरथै प्रत्यभेदात् चन्द कां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340