Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 311
________________ १५७४ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ब्रह्मरक्षाप्रकृते सूत्रम् ३१-३३ यथा ब्रह्मत्रतपालनार्थमचेलत्वादीनि न कल्पन्ते तथा ब्रह्मचर्यरक्षणार्थमेव श्रमणीनां पट्टादयोऽपि दारुदण्डकान्ती न कल्पन्ते । द्वितीयपदे तु यतीनां कल्पन्ते परं पीठ- फलकानि वर्जयित्वा, तानि साधूनामपवादमन्तरेणापि कल्पन्त एवेत्यर्थः । अत एतेषां सूत्राणामारम्भः ।। ५९६५ ॥ अनेन सम्बन्धेनायातानाममीषां प्रथमसूत्रस्य व्याख्या - नो कल्पते निर्ग्रन्थीनाम् ' आकु5ञ्चनपट्टे' पर्यस्तिकापट्टं धारयितुं वा परिहर्तुं वा । कल्पते निर्ग्रन्थानामाकुञ्चनपट्टे धारयितुं वा परिहर्तुं वेति सूत्रार्थः ॥ अथ भाष्यम् गव्वो अवाउडतं, अणुवधि पलिमंथु सत्थुपरिवाओ । पट्टमजालिय दोसा, गिलाणियाए उ जयणाए ।। ५९६६ ॥ पर्यस्तिकापट्टं परिदधानामार्थिकां दृष्ट्वा लोको ब्रूयात् - अहो ! अस्याः कियान् गर्यो यदेवं 10 महेलाऽपि भवन्ती पर्यस्तिकां करोति । अपावृता वा पर्यस्तिकां कुर्वाणा भवेत् । " अणुवहि " त्तिय उपकारे वर्तते स उपधिरुच्यते, स च तासामुपकारं नायातीति कृत्वाऽनुपधिः । उभयकालं प्रत्युपेक्षमाणे च तस्मिन् सूत्रार्थपरिमन्थः । शास्तुश्च - तीर्थकृतः परिवादः, यथा - नून सर्वज्ञोऽसौ येनैतासां पर्यस्तिकापट्टो न प्रतिषिद्धः । द्वितीयपदे या संयती स्थविरा ग्लाना वा तया 'यतनया' अल्पसागारिके पर्यस्तिकापट्टः परिधातव्यः उपरि चान्यत् प्रावरणीयम् । 15 कारणे च गृह्यमाणो यः 'अजालिकः ' जालरहितः स ग्रहीतव्यः, जालसदृशे तु शुषिरदोषाः । एवं निर्ग्रन्थानामप्यकारणे पर्यस्तिकां कुर्वाणानां चतुर्लघु गर्वादयश्च त एव दोषाः । ५९६६ ॥ कारणे पुनरयं विधिः थेरेव गिलाणे वा, सुत्तं काउमुवरिं तु पाउरणं । सावस्सए व वेट्ठो, पुव्वकतमसारिए वाए || ५९६७ ॥ 20 सूत्रपौरुषीम् उपलक्षणत्वाद् अर्थपौरुषीं च 'कर्तुं' शिष्याणां दातुमित्यर्थः स्थविरो ग्लानो. वा वाचनाचार्यः पर्यस्तिकां कृत्वा उपरि प्रावृणुयात् । उत्तरार्द्ध पश्चाद् व्याख्यास्यते ॥ स च पर्यस्तिकापट्टः कीदृश: ? इत्याह फल्लो अचित्तो अह आविओ वा, चउरंगुलं वित्थडो असंधिमो अ । विस्सामहे तु सरीरगस्सा, दोसा अवभगया ण एवं ।। ५९६८ । Jain Education International - १ 'न्ता वक्ष्यमाणाः पदार्थाः न कल्पन्ते । यतीनां तु ते पट्टादयः “बिइयपदेण” त्ति विभक्तिव्यत्ययात् द्वितीयपदे प्राप्ते सति कल्पन्ते परं पीठ' कां• ॥ २ मीषां सूत्राणां मध्यात् प्रथम सूत्रस्य तावद् व्याख्या -नो कल्पते निर्ग्रन्धीनाम् 'आकुञ्चनपट्टः' पर्यस्तिकापट्ट, कोऽर्थः ? सूत्रे नपुंसकत्व निर्देशः प्राकृतत्वात्, सः 'धारयितुं वा' वसत्तायां स्थापयितुं 'परिहर्तु वा' परिभोक्तुम्, न कल्पते इति सम्बन्धः ॥ इत्थं निर्ग्रन्थीविषयं निषेध सूत्रमभिधाय सम्प्रति निर्ग्रन्थविषयं विधिसूत्रमाह - "कप्पइ" इत्यादि, कल्पते निर्ग्रन्थाना कां० ॥ ३ निर्ग्रन्थी यदि पर्यस्तिकापट्टं गृह्णाति परिभुङ्गे वा तदा चतुर्गुरुकाः । तथा पर्य को० ॥ ४°सां तुच्छस्वभावानामपि पर्यस्तिकापट्टो न प्रतिषिद्धः । द्वितीयपदे या संयती ग्लानिका तुशब्दस्यानुक्तसमुच्चयार्थतया स्थविरा वा तया कां० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340