________________
१५७४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ब्रह्मरक्षाप्रकृते सूत्रम् ३१-३३
यथा ब्रह्मत्रतपालनार्थमचेलत्वादीनि न कल्पन्ते तथा ब्रह्मचर्यरक्षणार्थमेव श्रमणीनां पट्टादयोऽपि दारुदण्डकान्ती न कल्पन्ते । द्वितीयपदे तु यतीनां कल्पन्ते परं पीठ- फलकानि वर्जयित्वा, तानि साधूनामपवादमन्तरेणापि कल्पन्त एवेत्यर्थः । अत एतेषां सूत्राणामारम्भः ।। ५९६५ ॥ अनेन सम्बन्धेनायातानाममीषां प्रथमसूत्रस्य व्याख्या - नो कल्पते निर्ग्रन्थीनाम् ' आकु5ञ्चनपट्टे' पर्यस्तिकापट्टं धारयितुं वा परिहर्तुं वा । कल्पते निर्ग्रन्थानामाकुञ्चनपट्टे धारयितुं वा परिहर्तुं वेति सूत्रार्थः ॥ अथ भाष्यम्
गव्वो अवाउडतं, अणुवधि पलिमंथु सत्थुपरिवाओ । पट्टमजालिय दोसा, गिलाणियाए उ जयणाए ।। ५९६६ ॥ पर्यस्तिकापट्टं परिदधानामार्थिकां दृष्ट्वा लोको ब्रूयात् - अहो ! अस्याः कियान् गर्यो यदेवं 10 महेलाऽपि भवन्ती पर्यस्तिकां करोति । अपावृता वा पर्यस्तिकां कुर्वाणा भवेत् । " अणुवहि " त्तिय उपकारे वर्तते स उपधिरुच्यते, स च तासामुपकारं नायातीति कृत्वाऽनुपधिः । उभयकालं प्रत्युपेक्षमाणे च तस्मिन् सूत्रार्थपरिमन्थः । शास्तुश्च - तीर्थकृतः परिवादः, यथा - नून सर्वज्ञोऽसौ येनैतासां पर्यस्तिकापट्टो न प्रतिषिद्धः । द्वितीयपदे या संयती स्थविरा ग्लाना वा तया 'यतनया' अल्पसागारिके पर्यस्तिकापट्टः परिधातव्यः उपरि चान्यत् प्रावरणीयम् । 15 कारणे च गृह्यमाणो यः 'अजालिकः ' जालरहितः स ग्रहीतव्यः, जालसदृशे तु शुषिरदोषाः । एवं निर्ग्रन्थानामप्यकारणे पर्यस्तिकां कुर्वाणानां चतुर्लघु गर्वादयश्च त एव दोषाः । ५९६६ ॥ कारणे पुनरयं विधिः
थेरेव गिलाणे वा, सुत्तं काउमुवरिं तु पाउरणं ।
सावस्सए व वेट्ठो, पुव्वकतमसारिए वाए || ५९६७ ॥
20 सूत्रपौरुषीम् उपलक्षणत्वाद् अर्थपौरुषीं च 'कर्तुं' शिष्याणां दातुमित्यर्थः स्थविरो ग्लानो. वा वाचनाचार्यः पर्यस्तिकां कृत्वा उपरि प्रावृणुयात् । उत्तरार्द्ध पश्चाद् व्याख्यास्यते ॥
स च पर्यस्तिकापट्टः कीदृश: ? इत्याह
फल्लो अचित्तो अह आविओ वा, चउरंगुलं वित्थडो असंधिमो अ । विस्सामहे तु सरीरगस्सा, दोसा अवभगया ण एवं ।। ५९६८ ।
Jain Education International
-
१ 'न्ता वक्ष्यमाणाः पदार्थाः न कल्पन्ते । यतीनां तु ते पट्टादयः “बिइयपदेण” त्ति विभक्तिव्यत्ययात् द्वितीयपदे प्राप्ते सति कल्पन्ते परं पीठ' कां• ॥ २ मीषां सूत्राणां मध्यात् प्रथम सूत्रस्य तावद् व्याख्या -नो कल्पते निर्ग्रन्धीनाम् 'आकुञ्चनपट्टः' पर्यस्तिकापट्ट, कोऽर्थः ? सूत्रे नपुंसकत्व निर्देशः प्राकृतत्वात्, सः 'धारयितुं वा' वसत्तायां स्थापयितुं 'परिहर्तु वा' परिभोक्तुम्, न कल्पते इति सम्बन्धः ॥ इत्थं निर्ग्रन्थीविषयं निषेध सूत्रमभिधाय सम्प्रति निर्ग्रन्थविषयं विधिसूत्रमाह - "कप्पइ" इत्यादि, कल्पते निर्ग्रन्थाना कां० ॥ ३ निर्ग्रन्थी यदि पर्यस्तिकापट्टं गृह्णाति परिभुङ्गे वा तदा चतुर्गुरुकाः । तथा पर्य को० ॥ ४°सां तुच्छस्वभावानामपि पर्यस्तिकापट्टो न प्रतिषिद्धः । द्वितीयपदे या संयती ग्लानिका तुशब्दस्यानुक्तसमुच्चयार्थतया स्थविरा वा तया कां० ॥
For Private & Personal Use Only
www.jainelibrary.org