SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५९५७-६५] पञ्चम उद्देशः । १५७३ नादिभिर्यथोचितैस्तपोभिः शुध्यन्ति, न तीरैरभिग्रहैः ॥ ५९६० ॥ ५९६१ ॥ अपि च जो वि दढेिधणो हुन्जा, इथिचिंधो तु केवली । वसते सो वि गच्छम्मी, किमु त्थीवेदसिंधणा ॥ ५९६२ ॥ योऽपि 'दग्धेन्धनः' भस्मसात्कृतवेदमोहनीयकर्मा 'स्त्रीचिह्नः' बहिःस्त्रीलक्षणलक्षितः केवली भवति सोऽपि गच्छवासे वसति किं पुनर्या संयती स्त्रीवेदेन सेन्धना !, सा सुतरां गच्छे । वसेदिति भावः ॥ ५९६२ ॥ यदप्युक्तम्-'यदि न खादयति ततः को नाम तस्या अभिग्रहग्रहणे दोषः?' तदप्ययुक्तम् , प्रतिसेव्यमानाया आखादनस्य यादृच्छिकत्वात् । कथम् ? इति चेद् उच्यते अलायं घट्टियं ज्झाई, फुफुगा हसहसायई। कोवितो वड्वती वाही, इत्थीवेदे वि सो गमो ॥ ५९६३॥ 10 'अलातम्' उल्मुकं घट्टितं' चालितं सद् यथा 'ध्यायति' प्रज्वलति, यथा वा फुम्फुका घट्टिता 'हसहसायति' भृशं दीप्यते, यथा वा व्याधिरपथ्यासेवनादिना कोपितो वर्धते, स्त्रीवेदस्यापि स एव गमो मन्तव्यः, सोऽपि घट्टितः प्रज्वलतीत्यर्थः । अतो यादृच्छिकमाखादनमिति ॥५९६३॥ आह–संयतीनां प्रतिषिद्धा अमी अभिग्रहाः परं संयतानां का वार्ता ? अत्रोच्यते कारणमकारणम्मि य, गीयत्थम्मि य तहा अगीयम्मि। 15 एए सव्वे वि पए, संजयपक्खे विभासिज्जा ॥ ५९६४ ॥ यानि एतानि व्युत्सृष्टकायिकत्वादीनि पदान्युक्तानि तानि 'कारणे' सिंहादिभिरभिभूतस्य देवताकम्पननिमित्तं वा गीतार्थस्यागीतार्थस्य वा कल्पन्ते । अकारणे पुनरगीतार्थस्य न कल्पन्ते, गीतार्थस्य तु निष्कारणेऽपि निर्जरानिमित्तं कल्पन्ते । अचेलत्वादिकमपि गीतार्थस्य जिनकल्पं प्रतिपद्यमानस्य कल्पते । एवं संयतपक्षे 'एतानि' अचेलतादीनि सर्वाण्यपि 20 पदानि विभाषयेत् ॥ ५९६४ ॥ सूत्रम् नो कप्पइ निग्गंथीणं आकुंचणपट्टगंधारित्तए वा परिहरित्तए वा । कप्पइ निग्गंथाणं आकुंचणपट्टगं धारित्तए वा परिहरित्तए वा ३१ ॥ एवं यावद् दारुदण्डकसूत्रम् ॥ अथामीषां सूत्राणां सम्बन्धमाह बंभवयपालणट्ठा, तहेब पट्टाइया उ समणीणं । बिइयपदेण जईणं, पीढग-फलए विवजित्ता ॥ ५९६५ ॥ १°भिः भगवद्वचनप्रामाण्यादेव 'शुध्यन्ति' कर्ममलापगमतो निर्मलीभवन्ति न तीनै का० ॥ २°कत्व-ग्रामादिवहिःप्रदेशातापनाप्रदानप्रभृतीनि पदान्युक्तानि तानि 'कारणे सिंहादिभिरभिभूतस्य तदुत्थोपद्रवप्रशमननिमित्तं वा कां ॥ ३ 'विभाषयेत्' यथासम्भवं प्रतिपादयेत् ॥ ५९६४ ॥ का० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy